श्रीभगवानुवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेशुभात् ।।9.1।।
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ।।9.2।।
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ।।9.3।।
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।।9.4।।
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ।।9.5।।
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ।।9.6।।
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।।9.7।।
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः
भूतग्राममिमम् कृत्स्नमवसम्प्रकृतेर्वशात् ।।9.8।।
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय
उदासीनवदासीनमसक्तं तेषु कर्मसु ।।9.9।।
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ।।9.10।।
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्
परं भावमजानन्तो मम भूतमहेश्वरम् ।।9.11।।
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः
राक्षसीमासुरीं चैव प्रकृतिम् मोहिनीम् श्रिताः ।।9.12।।
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।।9.13।।
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ।।9.14।।
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ।।9.15।।
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्
मन्त्रोहमहमेवाज्यमहमग्निरहं हुतम् ।।9.16।।
पिताहमस्य जगतो माता धाता पितामहः
वेद्यं पवित्रमोंकार ऋक्सामयजुरेव च ।।9.17।।
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ।।9.18।।
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च
अमृतम् चैव मृत्युश्च सदसच्चाहमर्जुन ।।9.19।।
त्रैविद्या मां सोमपाः पूतपाफाः
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते
ते पुण्यमासाद्य सुरेन्द्रलोकम्
अश्नन्ति दिव्यान्दिवि देवभोगान् ।।9.20।।
ते तं भुक्त्वा स्वर्गलोकं विशालम्
क्षीणे पुण्ये मर्त्यलोकं विशन्ति
एवं त्रैधर्म्यमनुप्रपन्नाः
गतागतं कामकामा लभन्ते ।।9.21।।
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।।9.22।।
येप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः
तेपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ।।9.23।।
अहम् हि सर्वयज्ञानाम् भोक्ता च प्रभुरेव च
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ।।9.24।।
यान्ति देवव्रता देवान्पितॄन् यान्ति पितृव्रताः
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोपि माम् ।।9.25।।
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।।9.26।।
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ।।9.27।।
शुभाशुभफलैरेवम् मोक्ष्यसे कर्मबन्धनैः
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ।।9.28।।
समोहं सर्वभूतेषु न मे द्वेष्योस्ति न प्रियः
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ।।9.29।।
अपि चेत्सुदुराचारो भजते मामनन्यभाक्
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ।।9.30।।
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ।।9.31।।
मां हि पार्थ व्यपाश्रित्य येपि स्युः पापयोनयः
स्त्रियो वैश्यास्तथा शूद्रास्तेपि यान्ति परां गतिम् ।।9.32।।
किं पुनर्ब्राह्मणाः पुण्या भक्ताराजर्षयस्तथा
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ।।9.33।।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः ।।9.34।।