कृष
विलेखने
( कृषति कृषते चकर्ष चकर्षतुः चकर्षिथ चकर्ष चकृषिव चकृषे चकृषाते चकृषिष ) इत्यादि क्रष्टा कर्ष्टा1 क्रक्ष्यति कर्क्ष्यति क्रक्ष्यते कर्क्ष्यते )झल्यकिति "अनुदात्तस्य चर्दुपधस्य'' इति पाक्षिके अमागमे यणादेशः ( कृषतु कृषताम् अकृषत् अकृषत कृषेत् कृषेताम् कृषेत कृषेयाताम् आशिषि (कृष्यात् कृक्षीष्ट) "लिङ्सिचावात्मनेपदेषु'' इति कित्त्वान्नामागमो नापि गुणः (अकृक्षत् अकृक्षताम् अकृक्षन् अकृक्षत अकृक्षाताम् अकृक्षन्त) "क्सस्याचि'' इत्यल्लोपः अजादौ "शल इगुपधात्'' इति क्सः अकार्क्षीत् अकार्ष्टाम् अकार्क्षुः अकृष्ट अकृक्षाताम् अकृक्षत) "स्पृशमृषकृष'' इति पक्षे सिच् झलि तस्य लोपः"वदव्रज'' इति परस्मैपदे वृद्धिः पूर्ववदमागमविकल्पः आत्मनेपदे तु "लिङ्सिचौ'' इति कित्वान्नामागमः अत एव न गुणः (चिकृक्षति) "हलन्ताच्च'' इति सनः कित्वान्नामागमो नापि गुणः ( चरीकृष्यते चरीकृष्टि ) इत्यादि ( कर्षयति अचकर्षत् अचीकृषत् ) उरृद्वा ( कृषिः ) "इक्कृष्यादिभ्यः'' इति इक् ( कृषीवलः) "रजःकृष्यासुति'' इति मत्वर्थे वलच् "वले'' इति दीर्घः'' ( सङ्कर्षणः ) नन्द्यादित्वात् ल्युः ( कृषकः ) "क्वुन् शिल्पिसंज्ञयोः'' इति क्वुन् "सप्तम्यां चोपपीङ'' इत्यत्र कर्षेरिदंग्रहणं न कृषेरिति वृत्तिः आत्रेयस्तु व्याख्यानकृन्मतमेतत्, विशेषाभावादिति हरदत्तस्तु विशेषमाह यदाह यद्यप्युभयोरपि विलेखने पाठस्तथापि तौदादिकस्य क्षेत्रविषये विलेखने वृत्तिः, तेन क्षेत्रे उपकृष्य हलेनोपकृष्य, तौदादिकात् कृत्वाप्रत्यय एव भवति न णमुलिति न्यासकारोऽपि कर्ष इति शपा निर्देशाद्भौवादिकस्य ग्रहणमित्याह तुदादयोऽनुदात्ताः स्वरितेतः 6