इष
 
गतौ
 ( इष्यति ) "इषुगमियमाम्'' इत्यत्र "क्सस्याचि'' इत्यतो ऽचीत्यनुवर्तते, "ष्ठिवुक्लमु'' इत्यतः शितीति च तत्र शितोऽचो विशेषणादित्संज्ञकशकारादावचि छत्त्वविधिरितीह न भवति ये तु तौदादिकमुदितं पठित्वा छत्वविधावपि तथा पठन्ति तेषां न कश्चित्क्लेशः ( इयेष, ईषतुः, इयेषिथ, ईषिव, ) पित्सु गुणे द्विर्वचनम् "अभ्यासस्यासवर्णे'' इतीयङ् अन्यत्र सवर्णदीर्घः ( प्रेषिता प्रेषिष्यति ) गुणे "वृद्धिरेचि'' इति वृद्धिं बाधित्वा, "एङि पररूपम्'' ( इष्यतु इष्य इष्याणि ऐष्यत् इष्येत् ) आशिषि, ( इष्यात् ऐषीत् इषिषिषतिएषयति मा भवानिषिषत्) ओणेरृदित्करणाद् द्विर्वचनात्पूर्वं ह्रस्व इत्युक्तम् (एषित्वा एषितः)"तीषसह'' इति तादौ विधीयमान इड्विकल्पः [इषेस्तकारेश्यन्प्रत्ययात्प्रतिषेधः] इत्युक्तत्वादिह न भवति ( प्रैषः, प्रैष्यः ) घञ्ण्यतौ [ प्रादूहोडोढ्येषैष्येषु वृद्धिर्वक्तव्या ] इति एङि पररूपापवादो वृद्धिः ( अन्वेषणा ) [ इषेरनिच्छार्थस्य युज्वक्तव्यः ] इति युच् ( पर्येषणा, परीष्टिः ) "परेर्वा'' इति युच्क्तिचौ ( एषणी ) "एषण करणे'' इति गौरादिपाठान्ङीष् ( इषीका ) "इषेः किच्च'' इतीकन्प्रत्ययः ( इष्टका ) "इष्य शिभ्यां तकन्'' इति तकन् किदित्यनुवर्तनान्न गुणः इषीकतूलम्, इष्टकचितम् ) "इष्टकेषीका'' इति चिततूलयोरुत्तरपदयोर्ह्रस्वः अत एवेष्टकेति निर्देशात् ""प्रत्ययस्थात्'' इति इत्वं न भवति तदन्तविधिना ( पक्वेष्टकचितम् ) इत्यपि भवति अयं चुरादावपीति स्वामी इष इच्छायां तुदादिः इष आभीक्ष्ण्ये क्र्यादिः 20