अस
 
भुवि
 ( अस्ति, स्तः, सन्ति, असि, स्थः, स्थ, अस्मि, स्वः, स्मः ) "श्नसोरल्लोपः'' ङ्किति सार्वधातुके इत्यापिद्वचनेषु अल्लोपः "तासस्त्योः'' इति सलोपः सकारादौ ( विदामास, आसतुः आसुः, आसिथ, आसथुः आस, आसिव ) "अस्तेर्भूः'' "आर्धधातुके'' इति भूभावोऽनुप्रयोगे नेत्युक्तम् अन्यत्र भूभावे, ( बभूव ) इत्यादि भवतिवत् चान्द्रैरनुप्रयोगादन्यत्रापि क्वचिद्भूभावो नेष्यत इति "प्रादुरास बहुलक्षपाच्छवि'' इत्यादि समाहितम् अत्र युक्तिर्न दृश्यते धातुप्रदीपे तु "असतेरास' इत्युक्तम् विस्तरतु आसेति बभूवार्थे, आहेत्युवाचार्थे इति विभक्तिप्रतिरूपकत्वेन समाहितम् ( भविता भविष्यति अस्तु, स्तात्, स्ताम्,सन्तु, एधि, स्तात् स्तं, असानि असाव ) हावल्लोपे "घ्वसोरेद्धा0'' इति सकारस्यैत्वम् तस्य "असिद्धवदत्राभात्'' इत्यसिद्धत्वात्, "हुज्झल्भ्यो हेर्धिः'' इति धिभावः तातङ्पक्षे एत्वं न भवति, परेण तेन बाधात् कृते तु तातङि स्थानिवत्त्वेनापि न भवति "सकृद्गतौ विप्रतिषेधेन' इति ( आसीत्, आस्ताम्, आसन्, आसीः आसम्, आस्व) "अस्तिसिचोऽपृक्ते'' इतीडागमः श्नसोरल्लोपस्य "असिद्धवदत्र'' इत्यसिद्धत्वादाडागमो द्विवचनादौ ( स्यात्, स्यातां, स्युः, स्याः, स्यां, स्याव, ) पिद्वचनेष्वपि यासुटो ङित्त्वादल्लोपः आशिशि (भूयाद्) इत्यादि (अभूत्) "गातिस्था'' इति सिचो लुक् [ आहिभुवोरीट्प्रतिषेधे ] इति स्थानिवत्त्वनिषेधाद् अस्त्याश्रय ईण्णभवति प्रत्ययलक्षणेन सिजाश्रयो न भवति, अत एव स्थानिवत्त्वनिषेधसामर्ध्यात् यद्वा "अस्तिसिच'' इत्यस्य विद्यमानसिच इत्यर्थस्य भवतौ प्रतिपादितत्वाद् नैवसिजाश्रयस्येटः प्रसङ्गः सिचि वृद्धिर्लुका लुप्तत्वान्न भवति ( अभूवन् ) "भुवो वुग्लुङ्लिटोः'' इति वुक् "आत'' इति नियमात् जुस्भावो न भवति ( अभूः ) "भूसुवोस्तिङि'' इति पिति गुणनिषेधः शेषं भवतिवद् आर्धधातुके नेयम् "श्रिणीभुवोऽनुपसर्गे'' इति घञ् अस्य लुग्विकरणत्वान्न भवति तेन आपादाने भव इति "ऋदोरप्'' इति रक्षितः (विषन्ति प्रादुष्यन्ति, विष्यात्, प्रादुष्यात् ) उपसर्गप्रादुर्भ्यामस्तिर्यच्परःआभ्यां परस्यास्तिसकारस्य यकारस्य यकारपरस्याच्परस्य च ष इति षत्वम् ( व्यतिस्ते, व्यतिषाते, व्यतिषते, व्यतिसे, व्यतिषाथे, व्यतिध्वे, व्यतिहे व्यतिस्वहे व्यतिस्त ) इत्यतोऽन्यत्र"उपसर्गप्रादुर्भ्याम्'' इति षत्वं द्रष्टव्यम् (व्यतिसे) इत्यत्र श्नसोरल्लोपे "तासस्त्योः'' सलोपे प्रत्ययसकारस्यानस्तिसकारत्वात् पदादित्वाच्च षत्वाभावः ( व्यतिध्वे )इत्यत्र पूर्ववदल्लोपे, "धि च'' इति सलोपः एवं च सेध्वेशब्दयोः प्रत्ययमात्रमेवावशिष्यते लोटि ( व्यत्यसै ) इत्यत्र नित्यत्वात् "एत ऐ'' इत्यैकारादेशे "ह एति'' इत्येत्वंनिमित्ताभावान्न भवति अस्ति क्षीरं यस्यास्मा ( अस्तिक्षीरा ) ब्राह्मणी नास्ति बाधको येषां ते ( नास्तिबाधकाः ) "सुबधिकारे अस्तिक्षीरादिवचनम्' इति बहुव्रीहिः नास्तिबाधका इत्यत्र उत्तरपदपरत्वाभावात् "नलोपो नञ'' इति न भवतिउत्तरपदशब्दश्चसमासचरमावयवे रूढः परलोकोऽस्तीति मतिर्यस्य ( आस्तिकः, ) परलोको नास्तीति मतिर्यस्य (नास्तिकः) "अस्तिनास्ति दिष्टं मतिः''इति मत्युपाधिकार्थेऽभ्योऽस्येति षष्ठ्यर्थेठक् वचनसामर्थ्यात्तिङ्न्ताद्वक्याच्चायं प्रत्ययो भवति निपातौ वास्तिनास्ती अत एव अस्तिमानित्याद्यकि भवति 55