वच
 
परिभाषणे
 अत्र पुरुषकारे "अस्यतिवक्ति'' इत्यत्र वृत्तौ परिभाषणे पठ्यते; तदपि परेरनधिकारार्थत्वाद् भाषणमेवार्थ इति एतच्च क्वचिद्वृत्तावेवं पाठदर्शनादुक्तम् (वक्ति, वक्तः, वक्षि, वक्थः, वक्थ, वच्मि, वच्मः ) वचन्तीत्यस्याप्रयोगोऽनभिधानादितिस्वामिसम्मताकारौ तथा च भोजः "न वचन्ति प्रयुञ्जते' इति आत्रेयस्तु एकवचनान्युदाहृत्य अन्यत्रानभिधनमित्येके झिमात्रएवानभिधानमिति केचित् इति ( उवाच, ऊचतुः, ऊचुः, उवक्थ, उवचिथ, ऊच, उवाच, उवच, ऊचिव, ) थलि भारद्वाजनियमादिड्विकल्पः ( वक्ता वक्ष्यति वक्तु, वक्तात्, वक्तां, वचन्तु, वग्धि ) हेर्धित्वे कुत्वजश्त्वे ( वचानि अवग्, अवग्, अवक्ताम्, अवचन्, अवक्, अवचम् वच्यात्, वच्यातां, वच्युः, वच्याः, वच्यां, वच्याव ) आशिषि ( उच्यात्, उच्यास्तां, ) कित्त्वात् "वचिस्वपि'' इति सम्प्रसारणम् ( अवोचत्, अवोचताम्, अवोचन्) "अस्यतिवक्ति'' इत्यङि "वच उम्'' इत्युम् (उक्थम्) यज्ञायज्ञियात्परं साम "पातॄतुदिवच'' इति थक् उक्थमधीते वेद वा (औक्थिकः) "क्रतूक्थादि'' इति ठक्, अयं च प्रत्ययो न सामवचनादिष्यते, किन्तु तल्लक्ष्णऔक्थिक्यनाम्नि वर्तमानादिति वृत्त्वादौ स्थितम् ( वक्त्रम् ) "गृधृविपचिवचि'' इति त्रः इन्दुवक्त्रो नाम देशः, (ऐन्दुवक्त्रकः) "कच्छाग्निवक्त्रगर्तोत्तरपदात्'' इति शैषिको वुञ् शेषमपि ब्रूञादेशवत् पारायणिकैरयं धातुर्नापाठीत्येतावतानार्षता नाशङ्क्या, "अस्यतिवक्ति'' इत्यत्र वृत्त्यादौ, "वच परिभाषणे ब्रूञादेशो वा'इत्युक्तत्वात् तथा वच्यादिसूत्रे न्यासपदमञ्जर्योश्च अस्यास्तित्वं स्पष्टम् किञ्चान्तिपरस्यास्य प्रयोगं प्रतिषेधन्तो भोजात्रेयादयोऽप्यत्रैवानुकूलाः अयमाधृषीयश्च इण्प्रभृतयोऽनुदात्ताः परस्मैपदनिः इङ् त्वात्मनेपदी 53