कृष
 
विलेखने
 
विलेखनमिहाकर्षणं
, तथा च पुरुषकारे कर्षतिश्चाकर्षणे प्रसिद्ध इति द्विकर्मकोऽयं, कर्षति शाखां ग्रामम् ( चकर्ष चकृषतुः चकर्षिथ चकृषिव क्रष्टा कर्ष्टा) "अनुदात्तस्य चर्दुपधस्य'' इत्यत्राम्विकल्पः ( कर्क्ष्यति क्रक्ष्यति कर्षतु अकर्षत् कर्षेत् कृष्यात् अकृक्षत् अकृक्षताम् ) "शल इगुपधा'' इति क्सः यदा"स्पृशमृशकृषतृपदृपां सिज्वा'' इति सिच् तदा पूर्वमेवामागमविकल्पे हलन्तलक्षणायां वृद्धौ ( आकार्क्षीत् आकार्ष्टाम् अक्राक्षीत् अक्राष्टामित्यादि चिकृक्षति ) "हलन्ताच्च'' इति सनः कित्त्वान्न गुणो नाप्यमागमः ( चरिकृष्यते चरिकर्ष्टि चरिक्रष्टि चरिकृषीति चरीकृष्टः चरिक्रष्ट इत्यादि ) लोटि हेर्धित्वष्टुत्वजश्त्वयोरमागमपक्षे ( चरीक्रष्टि ) लङि तिप्सिपोः हल्ङ्यादिलोपे च अचरीकर्ट् अमागमपक्षे अचरीक्रट् एवं वचनान्तरेषु सर्वेषु रिक्रीकोश्च उदाहार्यम् कर्षयति शाखां ग्रामं देवदत्तं यज्ञदत्तः ( अचीकृषत् अचकर्षत् ) "उरृद्वा'' अत्र कृषेः प्रापणार्थत्वेऽपि अस्ति फलतया गतेः प्रतीतिरिति गत्यर्थत्वात् "गतिबुद्धि'' इति प्रयोज्यस्य कर्मत्वम्, अत्र ग्रहणमुपसर्जनीभूतयापि गत्या तदर्थत्वे लिङ्गम्, अन्यथा ण्यन्तस्य गमनार्थ इति किं णिग्रहणेन अत एव तत्र नीवह्योः प्रतिषेधः कृतः कर्मणि लादयो नयत्यादिवन्नेयाः ( कृष्यम् ) "ऋदुपधाच्च'' इति क्यप्कर्षतीति कृषः इगुपधलक्षणः कः पाण्युपकर्षं पयः पिबति, पाणिना उपकृष्य, पाणावुपकृष्य वा पयः पिबतीत्यर्थः "सप्तम्यां चोपपीडरुधकर्ष'' इति सप्तम्यरन्ते चशब्दात् तृतीयान्ते च उपपदे उपपूर्वात् अस्मात् णमुल् तृतीयाप्रभृतित्वात् समासविकल्पनात् पाणावुपकर्षम्, पाणिनोपकर्षमित्यपि भवति क्रियाभेदेन वासरूपेण क्त्वापि भवतीति प्रागेवोक्तम् अत्र णमुल्विधावुपसर्गग्रहणं पीडेरेव विशेषणमिति भाववृत्तौ, भट्टिकारस्त्वतन्त्रं मन्यते यदाह धनु ररिभिरसह्यमुष्टिपीडं दधान इति इदं तावत् साहसमात्रं, यदाचार्येण प्रयुक्तस्यातन्त्रत्वादङ्गीकरणं, यदपि पीडिनैव संबंधकथनं तदपि न न्याय्यं, बहूच्कस्यास्य पूर्वनिपातायोगात्, अत एव वृत्तिन्यासपदमञ्जर्यादिषु संबुन्धोऽङ्गीकृतः कर्ष्टा शाखां, क्रष्टा शाखाम् अत्र तृनि "ञ्नित्यादेर्नित्यम्'' इति प्रकृतेराद्युदात्तत्वेऽप्युपदेशावस्थायां कृषेरनुदात्तत्वात् अमागमविधौ चोपदेशग्रहणानुवर्त्तनात् पक्षे ऽमागमो भवत्येव अयं तुदादावपि 970