श्रु
 
श्रवणे
 (शृणोति शृणुतः शृण्वन्ति शृणोषि शृणोमि शृणुवः शृण्वः शृणुमः शृण्मः) "श्रुवः शृच''इति श्नुप्रत्ययः शृभावश्च धातोः श्नोः शित्वात् सार्वधातुकत्वात् अपित्वात् ङित्वात् गुणः प्रकृतेः स्वस्य तु भवत्यक्ङिति ( शृण्वन्ति ) इत्यत्रान्तादेशे हुश्नुवोः सार्वधातुकेइति यणादेश उवङोऽपवादः सूत्रार्थस्तु जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्यासंयोगपूर्वो य उकारः तस्याजादौ सार्वधातुके यणिति श्नोरुकारस्य च ''लोपश्चास्यान्यतरस्यां म्वोः इति पक्षे लोपः ( शुश्राव शुश्रुवतुः शुश्रोथ शुश्रुव शुश्रुम ) पित्सु वृद्धिगुणयोरवावौ, अन्यत्राजादावुवङ् क्रादिषु पाठात् स्रवतिवत् थल्यप्यनिड् ( श्रोता श्रोष्यति शृणोतु शृणु ) "उतश्च प्रत्ययादसंयोगपूर्वात्'' इति हेर्लुक् ( शृणवानि ) आटि गुणावौ, ( अशृणोत् अशृणुताम् शृणुयात् आशिषि श्रूयात् ) "अकृत्सार्वधातुकयोर्दीर्घः'' अश्रौषीत् शुश्रूषते) "ज्ञाश्रुस्मृदृशां सनः'' इति तङ् (प्रतिशुश्रूषतिआशुश्रूषति )इत्यत्र "प्रत्याङ्भ्यां श्रुवः'' इति सन्निमित्तस्य तङो निषेध इह प्रत्याङोरुपसर्गयोर्ग्रहणात् ( देवदत्तं प्रतिशुश्रूषते भाष्यादाशुश्रूषते ) इत्यत्र तङेव भवति अत्र हिप्रत्याङौ कर्मप्रवचनीयौ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवःआङ् मर्यांदावचनेइत्येकसंज्ञाधिकारात् कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञा बाध्यते लक्षणं चिह्नं कं चित् प्रकारं प्राप्त इत्थम्भूतस्तस्याख्यानमित्थम्भूताख्यानं, भागः स्वीक्रियमाणो अंशः, उक्ता वीप्सा, विना तेनेति मर्यादा, सह तेनेत्यभिविधिः, वचनग्रहणाभिविधिरपि गृह्यते तत्र प्रतिशुश्रूषतइत्यस्य देवदत्तःशुश्रूषया लक्षणमित्यर्थः, देवदत्तसकाशात् शुश्रूषत इति यावत्, भाष्यादाशुश्रूषत इत्यस्य विना भाष्येण सह वा तेन शुश्रूषत इत्यर्थः (शोश्रूयते शोश्रुवीति शोश्रोति ) "उतो वृद्धिः""नाभ्यस्तस्य'इत्यनुवर्त्तनात् नेत्युक्तं, ( श्रावयति अशश्रवत् अशिश्रवत् ) णौ कृतस्य स्थानिवत्त्वात् श्रुशब्दस्य द्विर्वचनं "स्रवतिशृणोति'' इति पक्षे अभ्यासस्येत्वं, ( संशृणुते संशृण्वाते संशृण्वते संशृण्वे संशणुवहे संशृण्वहे संशुश्रुषे संश्रोता संश्रोष्यते संशृणुताम् समशृणुत संशृण्वीत आशिषि संश्रोषीष्ट समश्रोष्ट ) झलि सिज्लोपस्य पूर्वत्रासिद्धत्वात् गुणे ह्रस्वाभावान्नसिज्लोपप्रसङ्गः कर्मकर्तरिस्रवतिवत् (शुश्रुवान्) "भाषायां सदवसश्रुवः''इति लिट् क्वसुः अयं च लिट् लुङ्विषयः पाक्षिकः क्वस्वादेशश्च नित्यः तेनानेन लिटा मुक्ते यथायोगं लुङ्लङ्लिटो भवन्तीति सर्वं चैतत् सीदतावुपपादितम् भसंज्ञायां सम्प्रसारणं सवर्णदीर्घं बाधित्वा धातुवर्णत्वादुवङि ( शुश्रूवुषइत्यादि ) पदत्वे "वसुस्रंसु''इत्यादिना दत्वे शुश्रुवद्भ्यामित्यादि (देवदत्ताय गां प्रतिशृणोत्याश्रुणोति वा ) याचितः सन् तस्मै ददामीति प्रतिजानीत इत्यर्थः प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्त्ताप्रत्याङ्भ्यांमुपसृष्टस्य शृणोतेः प्रयोगे प्रतिशृणोति आशृणोति क्रियापेक्षया पूर्वस्याः क्रियायाः कर्त्ता सम्प्रदानमिति देवदत्तस्य सम्प्रदानत्त्वाच्चतुर्थी प्रत्याङ्भ्यामुपसृष्टः शृणोतिः प्रतिश्रवणार्थ इति अर्थात् पूर्वा क्रियेह याचनं, (निश्रावी) रक्षश्रुवपशां नाविति ग्रहादिपाठाण्णिनिः (विश्रावः) "वौ क्षुश्रुवः'' इति घञ् श्रूयतेऽनया इति(श्रुतिः)"श्रुयजिस्तुभ्यःकरणे'' इति क्तिन् स्त्रियां, ल्युटोऽपवादः अस्त्रियां श्रूयते अननेनेति ( श्रवणं श्रोत्रं ) यदा नक्षत्रवचनस्तदा श्रवणेन युक्ता रात्रिरिति विगृह्य "नक्षत्रेण युक्तः कालः'' इति विहितस्याणः "संज्ञायां श्रवणाश्वत्थाभ्याम्'' इति लुपि ( श्रवणा रात्रिरिति ) भवति अत्र "लुपि युक्तवद्व्यक्तिवचने'' इति प्रकृत्यर्थलिङं न भवति, विभाषा फाग्लुनीश्रवणाइति निर्देशात् लुबिति लुप्संज्ञया लुप्तप्रत्ययार्थ उच्यते तत्र युक्तवद्व्यक्तिवचने भवति इति सूत्रार्थः युक्तः प्रकृत्यर्थः प्रत्ययार्थेन सम्बद्ध इति कृत्वा, व्यक्तिर्लिङ्गं, वचनमेकत्वादि यदा श्रवणाशब्दः पौर्णमासीवचनस्तदा श्रवणा पौर्णमासी अस्मिन्निति विगृह्य"विभाषा फाग्लुनीश्रवणाकार्त्तिकीचैत्रीभ्यः'' इति अण्लुकोः कृतयोः ( श्रावणः श्रावणिकः ) इति भवति ( श्रवः ) असुन्, विश्रवसोऽपत्यं ( वैश्रवणः ) रावणश्च शिवादिषु विश्रवणं चेति पाठात् अपत्येऽणि तत्सन्नियोगेन विश्रवणरवणावादेशौ श्रोत्रम् ) ष्ट्रन्निति ष्ट्रन् ( श्रोणिः ) "वहिश्रुश्रियुद्रुग्लाहात्वरिभ्यो नित्'' इति नित् प्रत्ययः 924