कृपू
सामर्थ्ये
( कल्पते चक्लृपे चक्लृपिषे चक्लप्से ) इत्यादि स्यन्दिवत् विशेषस्तु "लुटि च क्लृप'' इति लुटि स्यसनोरित्यत्र परस्मैपदं तदा "तासि चक्लृपः'' इति लुटि सकारादावनिट्त्वं च ( कल्प्ता कल्पतासीति ) पूर्ववदिदमूदिल्लक्षणं विकल्पं बाधते अत्र चात्मनेपदेन सन्पदस्थस्येति स्थितमिति सन्नन्तात्कृति परस्मैपदे लुकि च निषेधो भवति ( चिक्लृप्सिता चिक्लृप्सेत्यादि ) "हलन्ताच्च'' इति सनः कित्त्वान्न गुणः तथा यदा लिङ्सिचोरात्मनेपदे इडभावस्तदा "लिङ्सिचावात्मनेपदेषु'' इति कित्त्वान्न गुणः ( क्लृप्सीष्ट अक्लृप्ता अक्लृप्सातामित्यादि ) इद्पक्षे ( कल्पिषीष् ) अकल्पिष्टेत्यादि ) "कृपो रो लः'' इति रेफस्य लत्वम् तत्र वर्णात्मकस्य रेफस्य वर्णात्मको लकारः, यस्त्ववर्णात्मक ऋकारस्तस्यावर्णात्मक लृकारस्तत्र स्थान्यादेशयोः वर्णैकदेशयोः निर्देष्टुमशक्यत्वात् ऋकारस्य लृकारः सम्बध्ये चल्कलिप्त च्लिकलिप्त चलीक ) इत्यादौ रिग्रीग्रुकामपि कृपो भक्ततृर्वेन तद्रुत्वाल्लत्वं भवति तथा ह्मुक्तम् "अदसोद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववतिति द्दुतादीनां यङ्लुगन्तानां लुङ्यङ् नास्ति "पुषदिद्यु तादि'' इति गणनिर्देशात् तेन (अदोद्योतीत्) इत्येव भवति सिजपेक्षोत्र गुणो नाजादिपिदपेक्षः तथा यङ्लुगन्तानां "न वृद्भ्यः'' इति हण्निषेधोपि गणनिर्देशान्न्भवति ( वरीवर्त्तिष्यतीत्यादेव) कृपेस्तु गुणनिर्देशाभावात् "तासि च क्लृप'' इति इण्निषेधो भवत्त्येव ( च ल्क्लृप्तासीत्यादि ) द्युतादय उदात्ता अनुदात्तेतः 750