एतदादयः कृपूपर्यन्ता उदात्ता अनुदात्तेतः। एवं तुहिरादितुह्मन्तात् विकल्पितेटः परिसमाप्य आत्मनेपदपरस्मैपदभेदेन विकल्पितेटो ऽन्यानप्याह---
द्युत
 
दीप्तौ
 एतदादयः कृपूपर्यन्ता उदात्ता अनुदात्तेतः (द्योतते दिद्यते)"द्युतिस्वाप्योः सम्प्रसारणम्'' इति हलादिशेषं बाधित्वा सम्प्रसारणमभ्यासस्येति शेषः ( द्योतितता द्योतिष्यते द्योतताम् द्योतेते आशिषि द्योतिषीष्ट अद्योतिष्टि अद्युतत् ) "द्युद्भ्यो लुङि'' इति वा परस्मैपदम् द्युद्भ्य इतिबहुवचनादाद्यर्थावगतिः यदा परस्मैपदं तदा पुषादित्वादङ् ( दिद्युतिषते दिद्योतिषते द्युतित्वा द्योतित्वा ) "रलोव्युपधा'' इति वा कित्त्वम् देद्युत्यते "द्युतिस्वाप्योः'' इत्यभ्यास्य संप्रसारेण "गुणो यङ्लुकोः'' इत्यभ्यासनिमित्तत्वेन प्रत्यये नानन्तर्यमाश्रीयते इति णिचा व्यवधानेप्यत्र संप्रसारणं भवति अत एव तत्र वृत्तौ अद्युतदित्युदाहारि तथा "दार्ति'' इतिसूत्रे दविद्युतदित्यत्र द्युतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य संप्रसारणाभावो विगागमश्चात्वं चास्य निपातृय इत्युक्तम् आनन्तर्थे ह्माश्रीयमाणे यङो लुका लुप्तत्वादानन्तर्याभावान्न सं प्रसारणस्य प्रसङ्ग इति किं तदभाववचनेन अत्र शिवदेवः "हेरचङि'' इति अभ्यासादुत्तरस्य हिनोतेः कुत्त्वमुक्त्वा तस्याचङीति निषेधाङ्गित्वात्प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणमिति सामान्येन परिभाषामाहश्रित्य पर्यहार्षीत् अभ्यासस्य निमित्ते प्रत्ययानन्तर्ये आश्रीयमाणे ऽजीहयदित्यत्र णिचा ऽङो व्यवधानात्कुत्त्वाप्रसङ्गेपि क्रियमाणोयं निषेधो ण्यधिकस्य ज्ञापयति अस्याः परिभाषायाः सामान्यापेक्षत्वं वार्तिककारस्याभिमतम् यदाह देवः चडोन्यत्र ण्यधिकस्यापि कुत्वं भवति, तेन प्रजिधाययिषतीति सिद्धं भवतीति तथा च वार्किमपि [ हेश्चङि प्रतिषेधानर्थक्यमङ्गान्यत्वा ] ज्ञापकं त्वन्यत्र ण्यधिकस्य कुत्वज्ञापनार्थमिति एवं "स्तम्बकर्णयोरमिजपोः" ''अर्हः'' इत्यादौ ण्यधिकस्य ग्रहणाभावाद् ण्यन्तादचो ऽभावादणि सुखार्हींत्यादि सिद्धति यदुक्तं सीरदेवेन ण्यधिकपरिभाषाया अव्यापिनीत्वात् अर्हादाप्रवृत्तिरिति सामान्यत्वमङ्गीकृत्य तपि वृत्तिवार्त्तिकविरोधादेव प्रतृयुक्तम् अस्योदुपधत्वाद् "उदुपधाद्भावादिकर्मणो)'' इति निष्ठायाः कित्त्वविकल्प उदाहार्यः ( द्युतितमेन द्योतितमनेनेत्यादि विद्युत् ) "भ्राजभास'' इत्यादिना क्किप् ( दिद्युत ) [द्युतिगममिजुहोतीनां द्वे च] इति क्कौ द्वित्वे ऽभ्यासस्य सम्प्रसारणम् ( ज्योतिः) द्युतेरिसन्, आदेश्च ज इतीसन् आदेश्च जः 728