दृह
दृहि
वृह
वृहि
वृद्धौ
( दर्हति ददर्ह दर्हितेतृयादि दरीदृह्मते ) "रीगृत्वतः''इति रीक् ( दर्दृहीति दर्दग्धिं ) दादेर्धातोर्घःइति ज्ञलि पदान्ते च हकारस्य घकारः "झषस्तथो'' इति धत्वम् "झलां जश् झशि'' इति जश्त्वेन गकारः (दाधर्त्सीत्यत्र ) "एकाचो बशो'' इति दकारस्य धकारः "खरि च'' इति धकारस्य चर्त्वे तकारः लङि तिप्सिपोरपृक्तलोपे घत्वभष्भावजत्वचर्त्वेषु (अदर्घक्) "रात्सस्य'' इति नियमान्न संयोगान्तलोपः चर्त्वस्य पूर्वत्रासिद्धतृवाद् झषन्तत्वम् ( दर्हयति अददर्हत् अदीदृहत् दर्हित्वा दर्हितम् दृंहति ददृंहिता दिहंहिष्ज्ञति दरीद्दंह्मते ) "रीगृत्वतः'' इति रीक् ( दर्दृंहीति दर्दृङ्धः ) लङि तिप्सिपोर्हल्यादिलोपे पदान्तसंयोगान्तलोपे पदान्तत्वे झषन्तत्वाभावान्न भष्भाव इति (अदर्द्दन् द्दंहित्वा द्दहित्वा द्दंहितम् दृढः )"दृढः स्थूलबलयोः'' इति क्तस्यानिट्त्वात्तकारस्य ढत्वं नकारहकारयोर्लोपश्च निपात्यते दृदंहैरपीदं निपातनम् तथा च वृत्तिः अथ दृहिः प्रकृत्यन्तरमस्ति तस्याप्येतदेव सर्वं नलोपवर्जमिति स्थूलबलाभ्यामन्यत्र दृहितः नन्वत्र तकारस्य ढत्वे हकारलोपश्च किमर्थं निपात्यते यावता हो ढे "झषस्तथोः'' इति धत्वे ष्टुत्वढलोपयोः सिद्धं दृढ इति सत्यं सिद्ध्यति इह हि दृढिमा द्रढीयान् द्रढिष्ठः दृढमाचष्टे द्रढयति "र ऋतो हलादेर्लघोः''इति ऋकारस्य विधीयमानो रभावो ढलोपस्य पूर्वत्रासिद्धत्त्वात् संयोगपरत्वेनगुरुत्वाल्लघुत्वाभावान्न स्यात तथा च परिद्रढय्येत्यत्र परिदृढमाचष्ट इति विगृह्म सोपसर्गाच्चेत्संग्रामयतेरेवति नियमाद् दृढशब्दाणौ टिलोपे क्त्वान्ते समासे क्त्वो ल्यपि च कृते "ल्यपि लघुपर्वात्'' इति लघुपूर्वाद्वर्णात्परस्य णेर्ल्यपि परे विधीयमानोऽयादेशो न स्यात् नन्वेवमपि टिलोनस्य "असिद्धवद्'' इत्यसिद्धत्वान्न लघुपूर्वाद्वर्णात्परो णिर्भवति नैत् णौ टिलोपो णेर्ल्यप्ययादेश इति व्याश्रत्वेनासिद्धत्वाप्रसङ्गात् न च पूर्वस्मादपि विधौ स्थानिवद्भाव इति टिलोपस्थानिवत्त्वेन व्यवधानम् प्रबेभिदय्य गतः प्रस्तनय्य गत इत्यादीनां भाष्ये उदाहरणात् यद्वा लघुपूर्वादित्येनन सामर्थ्यादन्यपदार्थस्य वर्णस्यापेक्षयात्र वर्णग्रहणे जातिग्रहणमिति "निपात एकाच्'' हतृयेकग्रहणेन ज्ञापकात्स्थानिवद्भावेन व्यवधानेपि न दोषः यथा परिवृढस्यापत्यं पारिवृढी कन्येत्यत्र अणिञोःइति अनार्षे गोत्रे यावणिञौ तदन्तयोर्गुरूपो तमयोः स्त्रियां ष्यङिति ष्यङ् प्रसज्येजत (वर्हति वंऋहतीत्यादि पूर्ववत् ) दादित्वाभावान्न घत्वमिति ज्ञलि पदान्ते "होढः'' (एवं परिवृढः) "प्रभोरन्यत्र (परिवृहित) इति सानुषङ्गावेवपाणिनीयौ यदाह वृत्तिकारः दृढपरिवृढनिपातनं, यदि दृहिः प्रकृत्यन्तरमस्तीति, निरनुषङ्गौ भाष्यकारीयौ, दृश्येत हि वृढनिपातनं किमर्थं, न दृंहेरिड् भवतीत्येवोच्ये परिवृढनिपातनं किमर्थं परिपूर्वाद्वृहतेनङ्भवतीत्येवोच्येतेति, तथा ''न धातुलोप आर्धधातुके''इत्यत्र दृहिः प्रकृत्यन्तरमस्तीति 721