गाधृ
प्रतिष्ठा,लिप्सयोः,ग्रन्थे च
स्थापना तत्स्थापनं वा प्रतिष्ठा
लब्धुमिच्छा लिप्सा
एकत्र स्थापनं संदर्भो वा ग्रन्थः
तत्राद्ये ऽकर्मकः, इतरयोः सकर्मकः, ( गाधते गाधसे गाधे गाधमानः जागाधं गाधिता गाधितासे गाधिताहे गाधिष्यते गाधिष्यमाणः गाधताम् गाधस्व गाधै अगाधत अगाधथाः गाधेय आशिषि गाधिषीष्ट गाधिष्ट अगाधिष्ठाः अगाधिषि अगाधिष्यतेत्यादि ) भावकर्मकर्तृषु लट्लोट्लङ्विध्यादिलिङ्क्षु यक् (गाध्यते गाध्यसे गाध्यताम् अगाध्यत गाध्येतेत्यादि) (अन्येषु लेषु कर्तृवत्, लुङयेकवचने तु चिणि (अगाधीति ) लिप्यायामप्यार्थेन न्_यायेनेष्यमाणप्रधानत्वात्तस्य च कर्मस्थत्वात्सनन्तवत् कर्मकर्तृत्वोवपत्तिः ( जिगाधिषते जिगाधिषां चक्रे जिगाधिषिता जिगाधिषिष्यते जिगाधिषाताम् अजिगाधिषत जिगाधिषेत ) आशिषि ( जिगाधिषिषीष्ट अजिगाधिइष्ट अजिगाधिषिष्यतेत्यादि ) सर्वत्राभ्यासकार्यम् आर्धधातुकेऽतो लोपः, भावकर्मणोर्यक्चिण्विषये ( जिगाधिष्यते ) अजिगाधिषीत्यादि कर्मकर्त्तरि यक्चिणोर्निषेधात् कर्तृवदेच ( जागाध्यते ) जागाधां चक्रे जागाधिता जागाधिष्यते जागाध्यताम् अजागाध्यत जागाध्येत ) आशिषि ( जागाधिषीष्ट अजागाधिष्ठ अजागाधिष्यत )सर्वत्राभ्यासस्य दीर्घोऽकितः'' आर्धधातुके "अतो लोपः'' "यस्य हल'' इति यलोपाल्लोपौ भावादिषु यक्यप्यल्लोपयलोपयोः सर्वत्र कर्तृवद्रूपम् लुङयेकवचने त्वजागाधीतिचिण्विशेषः सन्यङोश्चिण्वदिव्यतोलोपेन वृद्धिबाधाद्न विशेष इत्युक्तम् यङलुकि "झषस्तथोर्धो ऽधः'' "झलां जश् झशि'' ( जागद्धीत्येवं )सिपि एकाचो बशो भष् झषन्तस्य स्ध्वोःइति धातोररवयवस्य झषन्तस्यैकाचो बशः स्थाने भषादेशः सकारादौ प्रत्यये ध्वे च परे पदान्ते च विषये इतयान्तरम्यात् गकारस्य घकारे "खरि च'' इति धकारस्य तकारे ( जाधात्सीति जगाधां चकार ) "पूर्वतत्कृञ'' इति परस्मैपदम् ( जागाधिता जागाधिष्यति जागाद्धु जगाद्धात् जागाधानि अजाघात् अजाघाद् ) हलङ्यादिलोपे पदान्ते चेति बशो भषादेशे जश्त्वे च चर्त्वम् सिपि तु "दश्च''इति वा रुत्वे ( अजाघा इत्यपि जागाध्यात् जागाध्याताम् आशिषि जागाध्यात् जागाध्यास्ताम् अजागाधीत् अजाधिष्टाम् अजागाधिष्यदित्यादि) सर्वत्र यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्य पक्षे ईडुदाहायेः लुङितु "अस्तिसिचो'' इति नित्यः भावादौ यङन्तवत् ( गाधयति गाधायां चकार गाधयिता गायिष्यति गाधयतु आधयत् गाधयेत् ) आशिष्यनिडाद्यार्धधातुकत्वाण्णिलोपे ( गाध्यात् अजगाधत् ) अत्रास्य ऋदित्त्वात् "नाग्लोपिशास्वृदिताम्'' इति णै चङि हस्वे निषिद्धेभ्यासस्यालघुपरत।वात्सन्वदित्वलघुदीर्घंत्वेन भवतः (गाधयत) इत्याद्युदाहार्यम्, प्रतिष्ठायाम् "अणावकर्मकात्'' इति चित्तवत्कर्त्तृ कत्वे परस्मैपदमेव भावकर्मणोर्यक्चिणोर्विषयेणिलोपे गाधतिवद्रपम् स्यादिषु तु ण्यन्ते कर्तृ वत् चिण्वदिटि तु णिलोपे गाधितेत्यादि प्रकृतिवदेव कर्मकर्तरि यक्चिणोनिषेधान्रवसु लकारेषु कर्तृ वत् (गाधनः) "अनुदात्तेत'' इति युच् (गाधा ) "गुरोश्च हलः'' इत्यकारः, प्रतिष्ठायां स्पर्द्धिवत्, भावकर्त्रधिकरणेषु क्त उदाहार्यः, इतरयोस्तु "तयोरेव'' नियमात्कर्मणि4