दक्ष
वृद्धौ, शीघ्रार्थे च
( दक्षते ददक्षे दक्षितेत्यादि दक्षिणः ) "द्रुदक्षिभ्यामिनन्'' इतीनन्, पूर्वशब्दवत् सर्वनामत्वं तत्कार्यं च स्त्रियां तु टापि (दक्षिणा) दक्षिणामर्हतीत्यादि (दक्षिणीयः दक्षिण्यः ) "कडंकर दक्षिणाच्छ च'' इति द्वितीयान्तादर्हतीत्यर्थे छयतौ ( ग्रामस्य दक्षिणतो वसति दक्षिणत आगतः दिक्षणतो रमणीयम् दक्षिणोत्तराभ्यामतसुच्इति सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे ऽतसुच्, "षष्ठ्यतसर्थप्रत्ययेन'' इति तद्युक्तात्षष्ठी अतसर्थप्रत्यय इति सप्तम्याद्यन्तात्स्वार्थे यो विहितः स उच्यत ( दक्षिणा ग्रामस्य ) "उत्तराधरदक्षिणादातिः'' इत्ययमातिरतसुज्विषये पूर्ववत् ग्रामतः षष्ठी ( दक्षिणेन ग्रामस्य ) "उत्तराधरदिक्षणादातिः'' इतृययमातिरतसुज्विषये पूर्ववत् ग्रामतः षष्ठी (दक्षिणेन ग्रामम् ग्रामस्येति वा, "एनबन्यतरस्यामदूरे पञ्चम्या इति वचनादयं सप्तमीप्रथमान्तेभ्य उत्तराद्यर्थोऽवधिसापेक्ष इति अवधिमतस्तस्य सामर्थ्यादवध्यपेक्षमदूरत्वम् अन्यतरस्यांग्रहणं यथाप्राप्तातसुजाद्यभ्यनुज्ञानार्थमितरथा ह्मयं दूरे बाधकः स्यात्, "एनपा द्वितीया'' इति तद्युक्तात् द्वितीया षष्ठ्यपीष्यते इति षष्ठी पक्षे ( दक्षिणा ग्रामात्, ) "दिक्षणादाच्'' इत्याच् एनपो विषये, "अन्यारादितरर्त्तेदिकछब्दाञ्चूत्तरपदाजाहियुक्ते'' इत्याजन्तयुक्तात्पञ्चमी अन्यहत्यर्थग्रहणम्, आरादितरर्त्ते इतिस्वरूपग्रहणम् दिक्शब्दा दिशि दृष्टाः पूर्वादयः अञ्चूत्तरपदाः प्रागादयः आजाही प्रत्ययौ दिब्धशब्दत्वादेव सिद्धे ऽञ्चूत्तरपदग्रहणमस्तात्यन्तार्थम् तत्र हि "षष्ठ्यतसर्थप्रत्ययेन'' इति षष्ठी विधीयते, एवमाजाह्मोरपि ( दक्षिणाहि ग्रामात् ) "आहि च दूरे'' इत्याहिः पूर्ववदव्ध्यपेक्षदूरत्वे चकारादाजपि द्रष्टव्यः सर्व एते "तद्धितश्चसर्वविभक्तिः'' इति अव्ययसंज्ञकाः दक्षिणा भवः (दाक्षिणात्यः) "दक्षिणापश्चात्पुरसस्त्यक्'' इति शैषिकस्त्क् दक्षिणाशब्दः पश्चात्पुरोभ्यां साहचर्यादिहाजन्तोव्ययं गृह्मते अत एव सर्वनामत्वाभावात् [ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः ] इति पुंवद्भाव वो नभवति600