षिध[षिधु?]
 
गत्याम्
 केचिदुदितं पठन्ति यदाह काश्यपः, उकार "उदितो वा'' इति विशेषणार्थ इति, तरङ्गिणी चायमुदिदिति, तद्वृत्तिविरोधादुपेक्ष्यं, यदाह ततः परं सिध्यतिरेव नेतर इत्यनिट्कारिकायां सिध्यतिबुध्यत्यो श्यना निर्द्देशादन्यविकरणयोर्बुधिसिध्योरिड्भवत्येव बोधिता सोधिता निष्ठायामपि प्रतिषेधाभावाद् बुधितं सिधिमित्येव भवतीति उदित्त्वे हि "उदितो वा'' इति क्त्वायां विकल्पस्योक्तत्वाद् यस्य विभाषायस्य धातोः क्क चिद्वभाषेहुक्तस्तस्य निष्ठायामिण नेति प्रतिषेधेन भाव्यमिति कथमेवं ब्रूयात् तत्र न्यासपदमञ्जर्योरपि सिधेरुदित्त्वमनार्षमित्युक्तम् अत एव क्षीरस्वामी सिद्धमित्युदाहृत्य निरनुबन्धपाठे तु सिधित इत्यपरितुष्यन्नुदाजहार अथोदाहरणानि "धात्वादेः षः सः'' ( सेधति सिषेध सिषेधिथ सिषिधिव ) "आदेशप्रत्यययोः'' इति षत्वं, ( सेधिता सेधिष्यति सेधतु असेधत् आशिषि सिध्यात् असेधीत् असेधिष्यत् कर्मणि सिध्यत इत्यादि ) गत्यर्थत्वेन कर्तृस्थक्रियत्वाद् न कर्मकर्तास्ति ( सिसेधिषति सिसिधिषति सिधित्वा सेधित्वा ) "रलो व्युपधात्'' इति कित्त्वविकल्पः "स्तौतिण्योरेव षणी" इति नियमान्न षत्वम् ( सेषिध्यते ) कुटिलं गच्छतीत्यर्थः "नित्यं कौटिल्ये गतौ'' इति यङ् नित्यग्रहणं क्रियासमभिहारे यङो निवृत्तय इति वृत्तौ प्रतिपादितम् ( सेषिधीति सेषेद्धि )"झषस्तथौः'' इति धत्वे जश्त्वम ( सेधयति असीषिधत् ) "दीर्घो लघोः'' इति दीर्घः, "सिध्यतेरपारलौकिके'' इति णावात्वं श्यना निर्देशादस्य न भवति प्रतिषेधति) उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिसथासेनयसेधसिचसञ्जस्वञ्जाम्इति उपसर्गस्यान्निमित्तात्पस्य सुनोत्यादिसकारस्य षत्वविधानात्"सात्पदाद्योः'' इति निषेधं बाधित्वा सिधिसकारस्य षत्वं, सेधतीति शपा निर्देशो यङ्लुङ्निवृत्त्यर्थश्चेति हरदत्तः तेन प्रतिसेषिधीतीत्यत्र अभ्यासे न षत्वं, परस्य "आदेशप्रत्यययोः'' इति षत्वं अस्त्विह शपा निर्देशोयं सिध्यतेरेव निवृत्त्यार्थो न यङ्लुकः, तेनेह षत्वं भवत्येव, एवं हि "सेधतेर्गतौ'' इति निषेधे शपा निर्द्देशो ऽर्थवान् अन्यथ यङ्लुकि षत्यस्वैवाप्रसङ्गात् किमनेनेति, प्रत्यषेधदित्यादौ उपसर्गस्थान्निमित्तात्परत्वाभावेऽपि प्राक् सितादड्व्यवाये ऽपिइति षत्वम् प्राक् सितादिति उपसर्गस्थात्सुनोतीत्यादयः परिनिविभ्यः सेवत्यन्ता उच्यन्ते प्रतिषिषिधिषतीत्यत्र "स्तौतिण्योरेव'' इति नियमं बाधित्वा"स्थादिष्वभ्यासेन चाभ्यासरू'' इति अभ्यासात्परस्य षत्वं, प्रकृतेनतु "उपसर्गात्'' इति इदं षत्वमषोपदेशार्थमवर्णान्ताभ्यासार्थं "स्तौतिण्योरेव'' इति नियमबाधनार्थं चेत्युक्तम् सूत्रार्थस्तु स्थादिषु प्राक्सितीयेषु उपसर्गादिति अभ्यवहितस्य च भवति अत्राभ्यासस्योपसर्गादित्येव सिद्धे ऽभ्यासग्रहणं योगभेदेन प्राक्सितीयेषु स्थादिष्वेवाभ्यासस्य षत्वं न त्वन्यत्रेति निषेधप्रतिपादनार्थम्, इदं च "उपसर्गाद्'' इति षतृवं "सेधतेर्गतौ'' निषेधात् ( प्रतिसेधति गा ) इत्यादौ गत्श्यर्थत्वेन भवति ( सुषेधः, दुःषेधः, निःषेधः ) "नुम्विसर्जनीयशर्व्यवायेपि'' इति किमेषां गणे पाठेन अत्र वृत्तिः सुशब्दस्य कर्मप्रवचनीयत्वान्निर्दुदशद्वयोः क्रियान्तरविषत्वादनुपसर्गत्वे सति पाठोयं, "सेधतेर्गतौ'' इति प्रतिषेधबाधनार्थं चेति सिध्रः साधुपर्यायः सिध्यतेर्वायम् "स्फायितञ्चि'' इत्यादिना रक् सिध्रको वृक्षविशेषः संज्ञायां कन् सिध्रकप्रचुरो वनविशेषः, सिध्रकावणम् वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम्इति कोटरादित्वा,न उत्तरपदे दीर्घः वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यःइति वननकारस्य णत्त्वम्, वनमिति षष्ठयर्थे प्रथमा इदं णत्वं संज्ञायामग्रात्परत्वे ऽसंज्ञायामपीति स्थितम् सिध्यं, बाहुलकान्मन् ( सिध्मलः ) "सिध्मादिभ्यश्च'' इतिप्रथमान्तादस्तुपाधिकादस्त्यर्थे लच् 47