उर्वी
 
तुर्वी
 
थुर्वी
 
धुर्वी
 
दुर्वी
 
हिंसार्थाः
 ( ऊर्वति ऊर्वो चकार ऊर्विता ऊर्विष्यति ऊर्वतु और्वत् ऊर्वेत् और्व्यात् और्वीत् ऊर्विविषति ऊर्वयति मा भवानूर्विवत् ) रेफोपधत्वात् "उपधायां च'' इति सर्वत्र दीर्धः ( ऊर्ण्णः उर्ण्णवान् ) ईदित्त्वान्निष्ठायामनिट्त्वे ज्ञलादिप्रत्ययपरत्वात् "राल्लोपः''इतिवलोरेफस्य हल्परत्वाद् "सिति च''इति दीर्घः "रषाभ्याम्''इति निष्ठानस्य णत्वम्, एवं क्किय्यपि "राल्लोपः'' इति वलोपे "र्वोरुपधाया'' इति पदत्वे दीर्घः, ( ऊः उरौ उर इत्यादि तूर्वति तुतूर्व तूर्विता तुतूर्विषति तोतूर्व्यते ) "हलो यमाम्'' इति वकारस्य लोपो यिआआसंख्यान्न भवति ( तोतूर्वीति तोतोर्त्ति तोतूर्त्तः तोतूर्वति इत्यादि ) पिद्वचनेष्वनिट्त्वं वकारस्य ज्ञल्परत्वेनानुनासिकादिप्रत्ययपरत्वेन च राल्लोपे लघूपधगुणः "हलि च'' इति दीर्घत्वं तु गुणे पूर्वत्रासिद्धम् ङित्स्वरेनैव दीर्घः तोतूर्वतीतृयत्र परत्वान्नित्यत्वाद् राल्लोपात्पूर्वमद्भावे कृते ज्ञल्परत्वाभावान्न राल्लोपः "उपधायां च'' इति रेफोपधत्वाद्दीर्घः (तोतूर्तः) इत्यत्र वलि लोपे "हलि च'' इति दीर्घः अज्ञलादित्वादनुनासिकत्वाच्च राल्लोपस्य न प्रसङ्गः ( तोतोर्तृ तोतूर्तात् तोतूहिं तोतूर्त्तम् ) उत्तमे राल्लोपस्यानित्यात्वादाडागमः लुङितिप्सिपोः परत्वाद्राल्लोपे हल्ङ्यादिलोपे (अतोतोरिति अतोतूर्वुः ) इत्यत्र परत्वाद् जुसि ज्ञल्परत्वाभावान्न राल्लोपः ( तूर्वयति अतुतूर्वत् तूर्वित्वा तूर्ण्णः तूर्ण्णवान् ) ईदित्त्वान्निष्ठायामनिट्त्वम् ( एवं थूर्वति, दूर्वति, धूर्वतीत्यादि धूः धुरौ ) "भ्राजभासभाष'' इत्यादिनां क्किपि राल्लोपः पदत्वे "र्वो'' इति दोर्धः धूर्ष्वितृयत्र "खरसवानयो'' इति विसर्जनीयो "रोः सुपि'' रोरेव सुपीति नियमान्न्भवति ( धूर्पतिः ) [ अहरादीनां पत्यादिषु उपसंख्यानम् ] इति विसर्जनीयापवादः पक्षे रेफः उभयत्राप्यादिशब्दः प्रकार इति हरदत्तः रेफाभावे विसर्जनीयो धूःपतिः अत्र विसर्जनीयस्य "कुप्वो क पौ च'' इति पवर्गपरत्वेन पक्ष उपध्मानीय उदाह्मार्यः "हणः षः'' इति षत्वमपदादिकवर्गपवर्गपरविसर्जनीयविषयमिति न भवति ( धुर्यो धौरेयः ) "धुरो यड्ढकौ'' इति द्वितीयान्ताद्वहतीत्यर्थे यड्ढकौ धुर्यमित्यत्र "हलि च'' इति दीर्घस्य "न भकुर्छुराम्'' इति प्रतिषेधः "र्वो'' इति दीर्घस्तु "यचि भम्'' इति भतृवेन पदत्वस्य बाधान्न भवति सर्वधुरं वहति ( सर्वधरीणः ) "खः सर्वधुरात्'' इति खः ख इति योगविभागात् (दक्षिणधुरीणः उत्तरधुरीणः ) इति वृत्तिः योगविभागस्येष्टसिद्बार्थत्वाद् (धुरीण) इत्यपिद्रष्टव्यम् अत्र "ऋक्पूरब्धूःपथामानक्षे'' इति ऋगाद्यन्ते समासे अकारस्य सामासान्तस्य विधानात "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''इति परवल्लिङ्गतया सर्वधुराया इति निर्द्देष्टव्ये सर्वधुरादिति निर्देशः शब्दरूपापेक्ष इति वृत्तावुक्तम् अनक्षइति वचनादक्षस्य धूरक्षधूः दृढा धूरस्य (दृढधूरक्ष) इत्यादावकारो न भवति (सुधूरतिधूः किंधूरधूः )इत्यत्र "न पूजनात्'' "किमः क्षेपे'' "नञस्तत्पुरुषात्''इति समासान्ताभावः पूजायां स्वती परिगणितौ "किमः क्षेपे'' इतृयत्र न्यासान्तरेणापि क्षेपग्रहणं लक्षणप्रतिपदोक्तपरिभाषया "किं क्षेप'' इति विहितस्य क्षेपविषयस्यैव तत्पुरुषस्य लाभे तत्करणात्सा च नेहास्तीति कुत्सिता धूरस्य किंधूः शकट इत्यत्रापि समासान्तो नेत्युक्तं पदामञ्जर्याम्, तद्भाष्यविरोधादुपेक्ष्यमिति अयं चाकारः समासार्थादुत्तरपदादकृत एव समासे भवति, तेन द्विधुरीत्यादावकारान्तोत्तरपदत्वाद् "द्विगोः'' इति ङीप्सिद्धः एतच्च जेमतावुपपादितम् एकधुरं वहति,(एकधरीणः एकधुरः) "एकधुराल्लुक् च''इति लुक् खश्च पक्षे ( धूर्त्तो हस्ती ) "हसिमृग्रिण्वाम्''इत्यादिना तन् अक्षेषु धूर्त्तः "सप्तमी शैण्डैः'' इति सप्तम्यन्तं शोण्डादिना समस्यते, ( ब्राह्मणधूर्त्तः ) "पोटायुवती''इत्यादिना समासः 565