सूर्क्ष्य
ईर्क्ष्य
ईर्ष्य
ईर्ष्यार्थाः
( सूर्क्ष्यति सुषूर्क्ष्य सर्क्ष्यिता सूर्क्ष्यिष्यति सूर्क्ष्यतु असूर्क्ष्यत् सूर्क्ष्येत् आशिषि सुर्क्ष्यात् असूर्क्ष्यीत् असूर्क्ष्यिष्यत् सुसुर्क्ष्यिषति ) स्तौतिण्योरव'' इति नियमान्न षत्वम् (सोसूर्क्ष्यते ) "हलो यमाम्'' इति पक्षे यलोपः अन्यदा तु यकारद्वयम् ( सोसूर्क्ष्यीति सोसूर्ष्टि ) बदूनां समवाये द्वयोरपि संयोगसंज्ञाया आश्रितत्वात् "स्कोः' इति ककोपः लङि तिप्सिनपोर्हल्ङ्यादिलोपे पदान्तसंयोगादित्वातकलोपे जश्त्वचर्त्वयोः (असोसूर्ट सर्वत्र यकारस्य वलि लोपः (सूर्क्ष्ययति असुसूर्क्ष्यत सूर्क्ष्य आदरइत्यग्रे (ईर्क्ष्यति इर्क्ष्योचकार ) ईर्क्ष्यिता ईर्क्ष्यिष्यति ईर्क्ष्यतु ऐर्क्ष्यत ईर्क्ष्येत् ईर्क्ष्यात् ऐर्क्ष्यियत् ईर्चिक्ष्यिषति ) "न न्द्राः'' इति रेफवर्जस्य द्विर्वचनाहलादिशेषे चर्त्वम्, (ईर्क्ष्ययति ऐर्चिक्ष्यत् ईर्ष्यति ईर्ष्यो चकार ईर्ष्वियतेत्यादि ) सनि [ ईर्ष्यतेस्तृतीयस्य द्वे भवति इति वक्तव्यम् ] इत्यत्र वृत्तौ कस्य तृतीयस्य के चिदाहुर्व्यञ्जनस्य अपरे पुनराहुस्तृतीयस्यैकाच इति तत्र तृतीयस्य व्यञ्जनस्येति पक्षे यकारादेर्द्वितीयस्यैकाचो द्विवचर्नम् ( ईर्ष्यियिषयति ) पक्षान्तरे तु तृतीयस्यैकाचः सन एव द्विवर्चनम् (ईर्ष्यिषिषतीति) भवति (ईर्ष्यति, ऐर्षिष्यत् ईष्यां ) "गुरोश्च हलः'' इत्यकारप्रत्ययः एषामीर्ष्यार्थतृवात् "क्रुधद्रुह'' इति कोपविषयस्य सम्प्रादानत्वाच्चतुर्थी ( देवदत्ताय सूर्क्ष्यतीत्यादि) क्विपि वलि लोपे च पदान्तसंयोगादित्वात् "स्कोः'' इति कलोप जश्त्वचर्त्वयोः (सूर्ट् )"रात्सस्य'' इति नियमानन्न संयोगान्तलोपः एवमीर्क्ष्यतेरपि ईर्ष्यतेरपीदमेव रूपम् 506