कपि
 
चलने
 ( कम्पते चकम्पे कम्पितेत्यादि कम्पयति ) "निगरणचलना'' इति नित्यं परस्मैपदम् कम्प्रः "नमिकम्पिस्म्यजसकमहिंसदीपो रः'' इति तच्छीलादौ रः वा सरूपविधिना "अनुदात्तेतः'' इति वा "चलनशब्दा'' इति वायु चिकम्पनः ननु पदेरनुदात्तेत्त्वादेव युचि सिद्धे "युजुचङ्क्रम्या'' इत्यादिना पुनर्युज्विधानेन ताच्छीलिकेषु वासरूपविधिर्नेति ज्ञापितम् अन्यथा लषपतपदेत्युकञा अनुदात्तेल्लक्षणयुचः समावेशे सिद्धे पुनस्तद्विधानमनर्थकं स्यात् नैतदस्ति "सूददीप'' इतियुज्निषेधादस्यानित्यत्वज्ञापनात्, नित्ये हि "नमिकम्पि'' इत्यादिना विशेषविहितेन रप्रत्ययेन युचो बाधस्य सिद्धत्वात् किं तन्निषेधेन ( विकम्पितः) विकृतशरीर इत्यर्थः "लगिकम्प्योरुपतापशरीरयोः'' इति नलोपः कपिः "कटिकम्प्योर्नलोपश्च'' इतीन्प्रत्यये नलोपः कपेर्भावकर्मणी कापेयम् "कपिज्ञात्योर्ढक्'' इति ढक् वृषो धर्मस्तस्याकपिः, अकम्पिता, वृषाकपिः विष्णुः रुद्रश्च वृषाकपायी श्री गौरी च "वृषाकपी'' इत्यादिना पुंयोगलक्षणे ङीषि अन्त्यस्यैकारः कपिलः "कपेश्च'' इतीलच्प्रत्ययः बाहुलकादत एव निर्देशाद्वा नलोपः ( कबलः कम्बलः ) बाहुलकात् कलप्रत्ययः पकारस्य बकारः पक्षे नलोपश्च कम्बल्यमूर्णापलशतम् कम्बलाय हितमिति विषये "कम्बलाच्च संज्ञायाम्'' इति यत् द्वाभ्यां कम्बल्याभ्यां क्रीता शाटी द्विकम्बल्या "तद्धितार्थोत्तरपदसमाहारे च'' इति तद्धितार्थे समासे "द्विगुश्च'' इति द्विगुत्वं "प्राग्वतेष्टक्'' इति प्राग्वतीयेष्वर्थेषु विहितस्य ठञः , "अध्यर्द्धपूर्वद्विगोर्लुगसंज्ञायाम्'' इतिलुक् अत्र "द्विगोः'' इति प्राप्तस्य ङीपः अपरिमराणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकिइति निषेधः अपरिमाणान्तात्परिमाणत्वेपि बिस्ताद्यन्ताच्च द्विगोस्तद्धितलुकि सति ङीब्नेति सूत्रार्थः पाण्डुकम्बलेन परिवृतो रथः पाण्डुकम्बली "पाण्डुकम्बलादिनिः इति पाण्डुकम्बलशब्दात्तृतीयान्तात् परिवृतो रथ इत्यर्थे इनिः येन तत्परिवृतं तत्तस्यास्ति इति मत्वर्थीयेन सिद्धे इदं वचनं ठनो निवृत्त्यर्थम् 372