मुद
हर्षे
( मोदते मोदते मोदे लघूपघत्वाद्गुणः मुमुदे मुमुदाते मुमुदिषे मुमुदिवेह "असंयोगाल्लिट्कित्'' इति कित्त्वान्न गुणः ( मोदिता मोदिष्यते मोदताम् अमोदत मोदेत आशिषि मोदिषीष्ट अमोदिष्ट अमोदिष्यत ) इत्यादि भावे ( मुद्यते अमुद्यत मुद्यते अमोदि शेषं कर्तृवत् मुमुदिषते, मुमोदिषते ) "रलो व्युपधाद्धलादेः संश्च'' संश्च'' रलन्ताद्धलादेरुकारेपधात् परौ सेटौ त्क्कासमौ वा कितौ भवत इति कित्त्पक्षे न गुणः (मुमुदिषां चक्रे इत्युदाहार्यम् मोमुद्यते मोमुदां चक्रे मोमुदितेत्यादि ) अजार्धधातुके यलोपाल्लोपयोर्लधूपधगुणो न भवति "न धातुलोप आर्धधातुके'' इति धातृवेकदेशलोपनिमित्तार्धधातुकनिमित्तयोणवृद्योर्निषेधाद् "अचः परस्मिन् पूर्वविधौ'' इत्यल्लोपस्य स्थानिवत्त्वादूठा ( मोमोत्ति मोमुत्तः मोमुदति मोमोत्सि मोमुदोषि मोमोद्धि मोमुदीमि मोमुद्वः) यङ्लुकोऽनैमित्तिकत्वात् "नधातुलांप''इति निषेधो न भवति र्हटि तु "नाभ्यास्तस्याचि पिति सार्वधातुके'' इति निषेधः ( मोमोदां चकार मोमोदिता मोमोदिष्यति मोमोत्तु मोमुत्तात् मोमुदीतु मोमुद्धि ) हेरपित्त्वान्न गुणः ( मोमुदानि मोमुदाव ) आठ्यजादिपित्सार्वधातुकत्वात् "नाभ्यस्त'' इति गुणनिषेधः लङीडभावपक्षे तिप्सिपोर्हल्ङ्यादिलोपं "वावसाने'' इति पक्षे चत्वर्म् सिपि तु "दश्च'' इति वा रुत्वमपि (अमोमोत् अमोमोद् आमोमोद् "वावसाने'' इति पक्षे चर्त्वम् सिपि तु "दश्च'' इति वा रुत्वमपि ( अमोमोत् अमोमोद् आमोमुत्ताम् अमोमोत् अमो ( मोमुद्यस्ताम् ) यासुटो ङित्त्वकित्त्वाभ्यान्न गुणः ( अमोमोदीत् ) सिज्लोपस्यासिद्धत्त्वाद्वा प्रत्ययलणेन वा गुणः ( अमोमोदिष्टाम् ) हलन्तलक्षणा वृद्धिः"नेटि'' इति निषिध्यते ( अमोमोदिष्यदित्यादि मोदयति मोदयां चकार इत्यादि पूर्ववत् लुङि(अमूमुदत् "दीर्घो लघोः'' इति दीर्घः ( मुदित्वा मोदि_वा ) उक्तः कित्त्वविकल्पः ( मुदिमनेन मोदितमनेन ) "निष्ठा'' इति भूते यः क्तः स "तयोरेव कृत्य'' इत्युक्तनियमादकर्मकादस्माद् भावे, ( प्रमुदितमनेन प्रमोदितमनेन प्रमुदितः प्रमोदितः ) अत्रादिक्रियालक्षणस्य भूतत्वाश्रये "निष्ठा'' इति क्तः स च "आदिकम्रणि क्तः कर्त्तरि च'' इति भावकत्रोर्द्वयोरपि भवति ( प्रमुदितवान् प्रमोदितवान् )"उदुपधद्भावादिकर्मणोरन्यतरस्याम्'' इति सेटो निष्ठायाः पक्षे कित्त्वनिषेधाद्गुणः भावादिकर्मभ्यामन्यत्र (मुदिते देवदत्तःमुदितवानित्येव) धौव्यार्थत्वात्कर्त्तरि क्तः मुदितवानित्यत्र अत्वसन्तस्य चाधतोःइत्यात्वं तस्याधातोरासन्तस्य चोपधायाः सम्बुद्धिवर्जिते सौ विहिताद्वीर्धादनन्तरं क्तवतोरुदित्त्वेन नुमि हल्ङ्यादिसंयोगान्तलोपौ पूर्वं नुमि न दीर्घस्य प्रसङ्गः उपधाभावात् न च संयोगान्लोपादनन्तरमुपधात्वे भूतपूर्वगत्याऽत्वन्ताश्रयस्य दीर्धस्य प्रसङ्गा नापि नान्तत्वेन "सर्वनामस्थाने'' इति दीर्घस्य यतस्तयोः संयोगान्तलोपोऽसिद्ध ( मोदनः ) युच् ( मुत् )[ संपदादिभ्यः क्किप् ] इति स्त्रियां क्किप् (मुदिरः) "इषिमदि' त्यादिना किरच् ( मुद्गः ) "मुदिग्रोर्गग्गाक्'' इति गक् कित्त्वान्न गुणः मुद्गेन संसृष्टं मौद्गम् मुद्गादण्इति तृतीयान्तादस्मात्संसृष्टेष्टेऽण् प्रत्ययः मुद्गा "स्फायितञ्चि''इत्यादिना रक् संसर्गार्थोयं चुरादौ16