कॄ
विक्षेपे
- किरति किरतेर्हर्षजीविका (1321 वा0) इति तङ्, अपाच्चतुष्पाच्छकुनिष्वालेखने (61142) सुट्-अपस्किरते वृषभो हृष्टः, अपस्किरते कुक्कुटो भक्षार्थी, अपस्किरते श्वाश्रयार्थी किरतेर्लवने (तु0 61140) सुट्- उपस्कारं मद्रका लुनन्ति हिंसायां प्रतेश्च (61141)-उपस्कारस्ते जाल्म भूयात्, प्रतिस्कारः मरणमस्त्विति प्रतिचस्कारे नखैः (शिशुपालवध 147) किरश्च पञ्चभ्यः (7275) सनीट्, अस्येटो वॄतो वा (7238) इति दीर्घो नेष्यते (द्र0 7275 काशिका)-विचिकरिषति, पक्षे विचिकीर्षति इगुपध (31135) इति कः-किरः सूकरः, किरिश्च (द्र0 4143) विष्किरः शकुनिर्विकिरो वा (61150) कॄपृवृजि (उ0 281) इति क्युः-किरणः कृशॄशलि (उ0 3122)इत्यभः करभः कॄवृतॄदारिभ्य उनन् (द0 उ0 552)-करुणः, करुणा कृपा कॄतॄभ्यामीषन् (उ0 426)-करीषः शुष्कगोमयम् कॄशॄपॄकटि (उ0 430) इतीरन्- करीरम् अङ्कुरः कॄगॄभ्यां किः (तु0 उ0 4142)-किरिः कॄगॄकृपिभ्यः कीटन् (तु0 उ0 4185) किरीटम् कॄवॄजॄसि (तु0 उ0 142) इति नः-कर्णः श्रोत्रम् कॄग्रोरुच्च (द्र0 उ0 1109)-कुरुर्देशः कॄगॄशॄपॄवृञ् चतिभ्यः ष्वरच् (द0 उ0 847 कपाठः)-कर्वरः कॄ धान्ये (3330) इति घञ्-उत्कारो धान्यस्य, निकारः, अन्यत्रोत्करः, निकरः वर्चस्केऽवस्करः (61148), अवकरोऽन्यः 128