अथ सेट आह- उदात्तावनुदात्तेतौ ।
अशू
 
व्याप्तौ, संघाते च
 ( अश्नुते अश्नुवाते अश्नुवते अश्नुषे अश्नुध्वेअश्नुवे अश्नुवहे ) "शात्'' इति तवर्गस्य श्चुत्वनिषेधः ( आनशे आनशाते आनशिषे आनक्षे आनशिध्वे आनड्ढ्वे आनशिवहे आनश्वहे आनशिमहे आनश्महे ) ऊदित्त्वादिड्विकल्पः झलि व्रश्चादिना षत्वं, "षढोः क सि'', "ष्टुनाष्टः'' इति कत्वषत्वे यथायोगम् "अत आदेः'' इत्यभ्यासस्य दीर्घत्वे ततः परस्य "अश्नोतेश्च'' इति नुडागमः ( अष्टा अशिता अक्ष्यते अशिष्यते अश्नुताम् अश्नुष्व आश्नुत आश्नुथाः आश्नुवि आश्नुवीत अश्नुवीथाः अश्नुवीयात् ) आशिषि ( अशिषीष्ट अक्षीष्ट आशिष्ट आष्ट आशिषाताम् आक्षाताम् ) "झलो झलि'' इति सिज्लोपे षत्वष्टुत्वे अन्यत्र षत्वे कत्वम् ( अशिशिषते ) "स्मिपूङ्रञ्ज्वशां सनि'' इति नित्यमिट् ( आशाश्यते ) "सूचिसूत्रि'' इत्यादिना यङ् तत्र ह्यश्नोतेरश्नातेश्च ग्रहणमुक्तं पदमञ्जर्यादौ एवं पारायणादौ आत्रेया ( 1 ) ( 1 ) आत्रेयमैत्रेयादाविति पाठान्तरम् दावपि यङ्लुकि (आष्टि) इत्यादि, अटतिवत् प्रक्रिया ( अष्ट्वा अशित्वा अष्टः अष्टवान् ) "यस्य विभाषा'' इत्यनिट्त्वम् ( रशना ) "अशेरश च'' इति युचि रशादेशः ( आशुः ) व्रीहिविशेषः "कृवापाजि'' इत्यादिनोण्प्रत्ययः शीघ्रपर्यायस्त्वयमव्ययम् ( श्वशुरः ) "शावशेराप्तौ'' इति शुशब्दे उपपदे उरन् प्रत्ययः आशुपर्यायः शुशब्दः ( श्वशुर्यंः ) "राजश्वशुराद्यत्'' इति अपत्ये यत् ( श्वश्रूः ) [ श्वशुरस्योकाराकारयोर्लोपश्च ) इत्युकाराकारयोर्लोप ऊङ्प्रत्ययश्च श्वश्रूश्च श्वशुरश्च ( श्वशुरौ ) "श्वशुरः श्वश्र्वा'' इति पक्षे श्वशुरस्य शेषः ( अक्षरम् ) "अशेः सरन्'' इति सरन् प्रत्ययः ( अष्टन् ) "सप्यशूभ्यां तुट् च'' इति कनिन्, तस्य तुडागमः (अष्टौ अष्टाभिः अष्टाभ्यः अष्टानाम् अष्टासु) "अष्टन आ विभक्तौ'' इति पक्षे आकारः "अष्टाभ्य औश्'' इति जश्शसोरौभावः अत्र लघ्वर्थमष्टन इति वक्तव्ये अष्टाभ्य इति निर्द्देशादष्टन आत्वपक्षे एवौश्भावः अयमेव निर्द्देश आत्वविकल्पे लिङ्गं, तेनाभावे जश्ससोः "षड्भ्यो लुक्''इति लुक्यष्टेति भवति "अङ्गाधिकारे तस्य तदुत्तरपदस्य च' इतिवचनात् परमाष्टौ इत्यादाव्यश्त्वं भवति अत्रापि पूर्ववदात्वपक्षे एवौश्त्वं तेनानात्वे परमाष्टेति भवति आत्वमप्याङ्गमिति तत्रापि पूर्ववत्तदन्तविधिर्द्रष्टव्यः ( अष्टावक्रः ) "अष्टनः संज्ञायाम्'' इत्युत्तरपदे दीर्घः अष्टाभिर्गोभिर्युक्तं शकटम् (अष्टागवम् ) "गवि च युक्ते'' भाषायामष्टनो दीर्घ इति दीर्घः (अष्टाविंशतिः ) "द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः'' इत्यशीतिवर्जिते संख्यायामुत्तरपदे दीर्घः अबहुव्रीहीतिवचनादष्टनवा इत्यत्र न भवति "प्राक् शतादू'' इति वचनादष्टशतमित्यादावपि न भवति अष्टमो भागः ( आष्टमः, अष्टमः ) "षष्टाष्टमाभ्यां ञ च'' इति भागे विवक्षिते ञप्रत्ययश्चकारादंश्च ( अश्वः ) "अशुप्रुषि'' इति क्वन् अश्वानां समूहो ( अश्वीयम् ) "केशाश्वाभ्यां यञ्छावन्यतरस्याम्'' इति छः अन्यतरस्यांग्रहणात्पक्षेऽण् ( आश्वम् ) अश्वस्य निमित्तं संयोग उत्पातो वा ( आश्विकः ) "आर्हाद्'' इति ठक् गोद्व्यचलक्षणो यत्तत्रैवं संख्यापरिमाणाश्वादीनां पर्युदासान्न भवति अश्वेनैकाहेनगम्यते ( आश्वीनः ) "अश्वस्यैकाहगम'' इति खञ् अश्वस्यापत्यम्'' ( आश्वायनः ) "अश्वादिभ्यः फञ् ( गवाश्वम् ) "गवाश्वप्रभृतीनि च'' इति नित्यमेकवद्भावः, पूर्वपदस्यावङ् च ( अश्वस्यति वडवा ) मैथुनमिव्छतीत्यर्थः क्यचि परतो "अश्वक्षीर'' इत्यसुक् अत्र हि [ अश्ववृषयोर्मैथुनेच्छायाम् ] इति पठ्यते अन्यत्राश्वीयति ( अश्वतरः ) गर्दभादश्वायामुत्पन्न उच्यते यस्य वेसर इति नाम "वत्सोक्षाश्वर्यभेभ्यश्च तनुत्व'' इति ष्टरच् अश्वशब्दार्थस्य व्यक्तेस्तनुत्वं प्रवृत्तिनिमित्तजातिद्वारकं,प्रवृत्तिनिमित्तं चेहाश्वादन्यस्मिंस्तत्सदृशे जात्यन्तरयोगिनि आरोप्यत इति गौणत्वं तनुत्वम् ष्ठरचः षित्त्वात्स्त्रियाम् ( अश्वतरी अक्षः) "अशेर्द्देवन'' इति सप्रत्ययः ( अक्षपरि ) अक्षेण न तथा पतितं यथा जय इत्यर्थः "अक्षशलाकासंख्याः परिणा'' इति तृतीयान्तस्याव्ययीभावः "कितव्वयवहारे चायं समास इष्यते' ( अक्षि अक्षिणी ) "अशेर्निद्'' इति क्सिप्रत्ययः अयमक्षतौ च व्युत्पादितः वक्तव्यं चान्यत्तत्रैवोक्तम् 18