रु
 
शब्दे
 रौतीत्यादि यौतीत्यादिवत् विशेषस्तु "तुरुस्तुशम्यमः सार्वधातुके'' इति हलादौ सार्वधातुके पक्षे ईडागमः शब्विषये, ( रवीति रुवीत ) इत्यादि अशब्विषये तु विकरणेन सार्वधातुकस्य व्यवधानादीटो ऽप्रसङ्गः ( रुरूषति ) "सनि ग्रहगुहोश्च'' इत्यानिट्त्वं, ( रोरूयते रोरवीति, रोरोति रोरुवीतः रोरुतः ) प्रकृतिग्रहणन्यायेन "तुरुस्तु'' इतीड्विकल्पः ( रवणः ) चलनशब्दार्थादिति युच् ( संरावः ) "उपसर्गे रुवः'' इति घञ्, प्राणा उपरवा इति प्रयोगः घे द्रष्टव्यः उपसर्ग इति वचनादनुपसृष्टादपि रवा बाहुलकात् घञपीत्यात्रेयः राव इति (आराव आरवः) "विभाषाङि रुप्लुवोः" इति पक्षे घञ्तदभावे ऽप् ( रविः ) "अच इः'' इतीप्रत्ययः "तुरुस्तुशम्यम'' इत्यत्रवृत्तौ तुरिति सौत्रो धातुरिति अत्र न्यासे वृद्ध्यर्थ इत्येके हिंसार्थ इत्यपरे, तस्य च लुग्विकरणत्वं स्मर्यते इति वर्द्धमानश्च तु वृद्धिहिंसयोरदादौ स्मर्यत इति हरदत्तस्तुवृद्ध्यर्थत्वमभिधाय गत्यर्थ इत्येके, हिंसार्थ इत्यपरे इति, त्रिष्वपीति बोधिन्यासे, (उत्तवीति)इति "बहुलं छन्दसि''इति शपो लुगिति पदमञ्जर्यां यद् दृश्यते तद्दुविन्यस्तकाकुपदजनितभ्रान्तिभिर्लेखकैरिहापि शम्यमोर्वक्ष्यमाणं लिखितमिति बोद्धव्यं न तु तत्प्रामाण्यादयं न्याय्यविकरण इति न्याय्यविकरणत्वे हि न्यासादिविरोधप्रसङ्गः स्यात् किं च शम्यमोश्छन्दसि विकरणस्य लुकि कृते हलादिसार्वधातुकमनन्तरं संभवतीति वृत्तिविरोधःस्यात् (तौति) इत्यादि रौतीत्यादिवदुदाहार्यम् "उतां च रुस्नुवौ क्षुवं तथोर्णोतिस्तथो युणुक्ष्णुव'' इति सेट् स्वस्यापाठादनिट्त्वम् ( तोता, तोष्यति ) इत्यादि थलि क्रादिनियमादिड्विकल्पः ( तुतोथ तुतविथ ) इति ( तुतावयिषति अतूतवत् ) इत्यत्राभ्यासस्यपुयण्जपरत्वाभावादित्वं न भवति आपिशलास्तु "तुरुस्तुशम्यमः सार्वधातुके छन्दिस' इति पठन्तः सर्वत्रेदं छान्दसमाहुः रवत इति गतिरेषणयोः शपि 24