णम
 
प्रह्वत्वे शब्दे
 नमति (ननाम नेमतुःनेमिथ ननन्थ नन्ता नंस्यतिनमतु अनमत् नमेत् नम्यात् अनंसीत् अनंसिष्टाम् ) "यमरमनमाताम्'' इति सगिटौ,परस्मैपदे ( निनंसति नंनंम्यते नंनमीति नंनन्ति नंनन्तः नंनमति नंनन्वः, नन्नन्मः ) "म्वोश्च'' इति नत्वम् अनंनन् अनन्नताम् "मो नो धातोः"इति पदान्ते नत्वम् ( नमयति नामयति ) "ज्वलह्वलह्मलनमामनुपसर्गाद्वा'' इति मित्त्वविकल्पः सोपसर्गात्तु अमन्त्वान्नित्यमित्त्वम् (प्रणमयति) "उपसर्गादसमासेऽपि''इति णत्वम् ( अनीनमत् ) नमते दण्डः स्वयमेव अनंस्त दण्डः स्वयमेव "न दुहस्नुनमाम्'' इति यक्चिणोर्निषेधः ( नम्रः ) "नमिकम्पि'' इति रः ( नेमिः ) भाषायां "धाञ्कृसृगमिजनिनमिभ्यः'' इति किकिनोरन्यतरः तस्य लिड्वद्भावादेत्वाभ्यासलोपौ भवतः "अनुदात्त'' इत्यनुनासिकलोपः (प्रणत्य प्रण्म्य) "वा ल्यपि''इत्यनुनासिकलोपतिविकल्पः नृन् नमयति नृनमो नाम कश्चित् "क्षुभ्नादिषु च''इति पाठाण्णत्वाभावः नमः असुन् नमस्यति देवान् पूजयतीत्यर्थः "नमोवरिवश्चित्रङः क्यच्''इति क्यच् नमसः पूजायामिति तत्र वृत्तिः ( नमस्कृत्य नमस्कृत्वा ) "साक्षात्प्रभृतीनि च'' इति कृञो योगे पक्षे गतिसज्ञा, गतित्वे"कुगति'' इति समासः "नमस्पुरसोर्गत्योः'' इति विसर्जनीयस्य सत्त्वं च नमो देवेभ्यः "नमः स्वस्तिस्वाहास्वधालंवषढ्योगाच्च''इति नमो युक्ताच्चतुर्थी नाकुर्वल्मीकः "फलपाटिनमि'' इत्यादिना उप्रत्ययो नाकादेशश्च ( नप्ता ) "नप्तृनेष्टृ'' इत्यादिना तृनि मकारस्य पकारो निपात्यते नप्तारावित्यादौ असम्बुद्धौ सर्वनामस्थाने "अप्तृन्'' इत्यादिना उपधादीर्घः 962