इतो मिहन्ता उदात्ता अनुदात्तेतः।
स्कन्दिर्
 
गति,शोषणयोः
 इतो मिहन्ता उदात्तेतोऽनुदात्तेतः ( स्कन्दति चस्कन्द चस्कन्दिथ चस्कन्थ चस्कन्दिव) क्रादिनियमादिड्, थलि भारद्वाजनियमात् विकल्पः (स्कन्ता स्कनत्स्यते स्कन्दतुअस्कन्दत् स्कन्देत् स्कद्यात् ) "किदाशिषि'' इति कित्त्वात्" "अनिदिताम्'' इति नलोपः अस्कदत् "इरितो वा'' इति वाङिनलोपः अङोभावे (अस्कान्त्सीत् अस्कान्ताम् अस्कान्त्सुः) "वदव्रज'' इति वृद्धिः, झलादौ "झलो झलि'' इति सिज्लेपः चिस्कन्त्सति चनीस्कद्यते '"नीग्वञ्चु'' इत्यादिना नीक् (चनीस्कन्ति चनीस्कत्तः चनीस्कदति स्कन्दयति अचस्कन्दत् ) गेहास्कन्दमास्ते"विशिपति'' इत्यादिना णमुल् तृतीयाप्रभृतित्वाद्वा समासः तेनैवोक्तत्वात् "नित्यवीप्सयोः'' न द्विर्वचनम् असमासे वीप्सायां द्रव्यवचनस्य द्विर्वचनं नित्यत्वे क्रियावचनस्येति गेहंगेहमवस्कन्दं, गेहमवस्कन्दमवस्कन्दमिति क्रियाभेदे त्वकापीष्यते इत्युक्तत्वात् गेहंगेहमवस्कद्येत्याद्यपि भवति (विष्कन्ता विस्कन्ता) "वेः स्कन्देरनिष्ठायाम्'' इति वा षत्वम् अनिष्ठायामिति पर्युदासे नञिवयुक्तन्यायेन कृत्येवायं विकल्पः तथा च वृत्तिकारेण पर्युदासो व्याख्यातः, कृतश्चोदाहृताः निष्ठायां विस्कन्नः "रदाभ्याम्'' इति निष्ठानत्वम् ( परिष्कन्ता, परिस्कन्ता ) "परेश्च'' इति वा षत्वम् पृथग्योगकरणात् अनिष्ठायामिति नानुवर्त्ततइति वृत्तिः, तेन परिष्कण्णः परिस्कन्न इति भवति अत एव पर्युदासाभावात् नञिवयुक्तन्यायो नास्तीति तिङ्यपि भवत्येव विकल्पः ( परिष्कन्दति, परिस्कन्दति ) इति ( परिस्कन्दः ) "परिस्कन्दः प्राच्यभरतेषु'' इत्यषत्वम् अस्य प्रयोगस्य प्राच्यभरतविषयत्वम् स्कन्त्वा प्रस्कन्द्य ) "क्त्वि स्कन्दिस्यन्दोः'' इति नलोपाभावः उत्कन्दो नाम रोगः "उदःस्थास्तम्भोः'' इत्यत्र [ रोगे चेति वक्तव्यम् ] इति वचनात्स्कन्देः सकारस्य पूर्ववसवर्णस्तकारो भवति 960