अति
अदि
बन्धने
अत्र धनपालः, तान्तं द्रविडाः पठन्ति आर्यास्तु दान्तमिति उभयमिति मैत्रेयस्वामिकाश्यपसंताकारादयः ( अन्तति आनन्त आनन्ततुः आनन्थिथ आनन्तिव अनिततेत्यादि ) हदित्त्वान्नुमि द्विहल्वात् "तस्मान्नुड् द्विहलः'' ति लिटि नुडागमः अन्तितिषति अनुस्वारपसवर्णयोः पूर्वत्रासिद्धत्वात् "न न्द्राः'' इति नकारवर्जं द्विरुच्यते न च [ पूर्वत्रासिद्धीयमद्विर्वचने ] इत्यसिद्धत्वनिषेधः अस्यद्वेर्वचननिषेधरूपत्वात् उक्तं चात्रैव "हयवरङ्' इत्यत्र जैयटे अन्तयति आन्तितत् एवमन्दतीत्यादि अन्तः घञज्वा उणादिवृत्तौ तु "हमिमृयीण्वामिदमिलूपूधूर्विभ्यस्वन्'' इति अमेस्तनि व्युत्याद्यते अन्ते भवमन्त्यम् "दिगादिभ्यो यत्'' इति सप्तम्यन्ताद्भावार्थे सत् अन्तिमम् अन्ताच्चेति वकृतव्यम् ] इति शैषिको डिमच् अन्तिकः अत इनिठनौअदन्तादस्त्युपाधिकादस्येति षष्ठ्यर्थे इनिठनाविति ठन् "ठस्येक'' आवसथस्यान्तिके "दूरान्तिकार्थैः षष्ठ्यान्यतरस्याम्'' इत्यन्तिकयुक्तात् षष्ठीपञ्चम्यौ अन्तिकशद्बात्तु "दूरान्तिकार्थेभ्यो द्वितीया च'' इत्यत्र पञ्चम्यनुवर्त्तते, चकारेण तृतीया समुच्चीयत इति द्वितीयापञ्चमीतृतीयाः स्युः तथा "सप्तम्यधिकरणे च'' इति चश्याब्दाद् दूरान्तिकार्थसमुच्चयार्थात्सप्तमी चेति चतस्त्रो विभक्तयः ( अन्तिकम् अन्तिकात् अन्तिकेन अन्तिके इति) एताश्चतस्त्रो विभक्तयोसत्त्ववचनेभ्यः प्रातिपादिकार्थं इति वृत्तौ भाष्ये दूरादावसथान्मूत्रं दूरात् पादावसेचनम् दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद्गुरोः
इति सत्त्ववचनादधिकरणे पञ्चमी दृश्यते कैयटे चावसथस्य दूर इत्यर्थ इति अन्तिकादागतः स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेनस्तोकाद्यर्थाः कृछ्रशब्दश्च पञ्चम्यन्ताः क्तान्तेन वा समस्यन्त इति तत्पुरुषपक्षे विभक्तेस्तु "पञ्चम्याः स्तोकादिभ्यः'' इत्यलुक् ऐकपद्यमैकस्वर्यञ्च विशेषः ( नेदिष्ठः नेदीयात् ) "अन्तिकबाढयोर्नेदसाधौ'' इति इष्ठन्नीयसुनोर्यथासङ्कयन्नेदसाधावादेशौ अस्मादेव वचनात् "अजादी गुणवचनादेव'' इति बाध्यते अन्दूर्भाषायां शृङ्खले च "अन्दूदृम्भूः'' इत्यूकारप्रत्यये निपातितः अन्दुको गजनिगलः संज्ञायां कनि "केणः'' इति ह्रस्वः 62