भुज
पालना,अभ्यवहारयोः
( भुनक्ति भुङ्क्त भुञ्जन्ति भुनक्षि भुनज्मि बुभो ज बुभुजतुः बुभोजिथ क्रादिनियमान्नित्यमिट् ( भोक्ता भोक्ष्यते भुनक्तु अभुनक् भुञ्ज्यात् ) आशिषि ( भुज्यात् अभौक्षीत् अभौक्ताम् बुभुक्षति ) "हलन्ताच्च'' इति सनः कित्त्वम् बोभुज्यते बोभुजीति बोभोक्ति भोजयति अवूभुजत् भुङ्क्ते भुञ्जाते भुञ्जते भङ्क्षे बुभुजे बुभुजिषे भोक्ता भोक्तासे भोक्ष्यते भुङ्क्ताम् अभुङ्क्त अभुञ्जाताम् भुञ्जीत भुञ्जीयाताम् ) आशिषि ( भुक्षीष्ट अभुक्त अभुक्षाताम् ) "लिङ्सिचावात्मनेपदेषु'' इति कित्त्वादगुणत्वम् ( बुभुक्षते ) "भुजोऽनवने'' इति तङ् भुजोऽदने इति वक्तव्ये अनवनइतिवचनमभ्यवहारादन्यत्रापि तङर्थम्, तथा चेदमपि सिध्यति "बुभुजे पृथिवीपालः पृथिचीमेव केवलाम्' अनुभव इहार्थः ( भोजयति देवदत्तं यज्ञदत्तः) "गतिबुद्धि'' इत्यादिना प्रयोज्यं कर्म निगरणार्थत्वान्नित्यम्परस्मैपदम् ( इदमेषां भुक्तम्, ) "क्तोऽधिकरणे च'' इत्यधिकरणे भावे कर्मणि वर्तमाने क्तः एवं भावकर्मणोरुदाहार्यम् भुक्ता ब्राह्मणा इति, भुक्तमेषामस्तीत्यर्थ आद्यजन्तः, ( भौज्यम् ) "भोज्यं भक्ष्ये'' इति ण्यति अकुत्वं निपात्यते अभक्ष्ये तु ( भोग्या ) लक्ष्मीः ( भोगः ) शरीरं "हलश्च'' इति संज्ञायां घञ् ( मातृभोगीणः ) "आत्मन्विश्वजनभोगोत्तरपदात्'' इति "तस्मै हितम्''इति विषये खः (आचार्यभोगीनः) इत्यत्र "आचायर्यादणत्वं च'' इति णत्वाभावः ( राजभोगीनः ) राजाचार्याभ्यान्तु नित्यं भोगोत्तरपदाभ्यामेवेति भोगोत्तरपदाभ्यामेवाभ्यां हितप्रत्ययनियमादाचार्याय हितं राज्ञे हितमित्यत्र वाक्यमेव भवति न तु सामान्यतश्छः प्रत्ययः मात्रे हितमित्यादौ तु (मात्रीयम् ) इत्यादि भवत्येव ( भुजः ) "हलश्च'' इति करणे घञ्, "भुजन्युब्जौ पाण्युपतापयोः'' इति अगुणत्वमकुत्वं च निपातितम् ( भुजा ) अयमेव टाबन्तः ( भोजः ) पचाद्यच् भजतीति शपि भुजतीति शेकौटिल्ये शिषादयश्चत्वारोऽनुदात्ताः उदात्तेतः 17