एजृ
भ्रेजृ
भ्राजृ
दीप्तौ
( एजते भ्रेजते ) "एङि पररूपम्'' एजां चक्रे एजितेत्यादि एजिजिषते एजयति मा भावानेजिजत् ) ऋदित्त्वान्नेधाह्रस्वः अन्यथा इदिधदित्यादिवद् द्विर्व्वचनात्पूर्व्वमेवोपधाह्रस्वः स्यात् अङ्गमेजयतीत्यङ्गमेजयः "एजेः खश्'' इति ण्यन्तादस्मात्कर्मण्युपपदे खशः शित्त्वात्सार्वधातुकत्वाच्छपि गुणायादेशौ अन्यथार्धधातुकत्वात् "ण्यल्लोपः'' इत्यादिना गुणं बाधित्वा णिलोपः स्यात् खित्त्वात् "अरुर्द्विषदजन्तस्य'' इति पूर्वपदस्य मुम् वृत्तौ तु एजृ कम्पनइति परस्मैपदिण्यन्तात् खशुक्तः उदेजयतीत्युदेजयः "अनुपसर्गाल्लिम्प'' इत्यादिना उत्पूर्वात् ण्यन्तादस्माच्छप्रत्यये शपि गुणायौ अनुपसर्गग्रहणमर्थादन्यविशेषणम् अत्राप्युपसर्गान्तरनिवृत्त्यर्थं च, तेन ( समुद ) इत्यादौ अचि णिलोपः ( भ्रेजते भ्रेतितेत्यादि बिभ्रेजिषते बेभ्रेज्यते बेभ्रेजीति बेभ्रेक्ति भ्रेजयति अबिभ्रेजत् ) "ह्रस्वः'' इति इकारोभ्यासस्य, पूर्ववद्ददित्त्वान्नोपधाह्रस्वः भ्राजत इत्यादि भ्रेजिवत् "व्रश्चभ्रस्जसृ'' इत्यादिना झलि पदान्ते च विधीयमानं षत्वमस्य नास्ति राजिसाहचर्यात्फणादिपठितस्यैव तत्र ग्रहणादिति मैत्रेयक्षीरस्वामिसंमताकारादयः एवं चावश्यपठितव्येन फणादिकेन भ्राजत इत्यादीनां सिद्धेरिह, पाठोऽनार्ष इवेति न्यासोक्तं दुरुक्तं, यद्वा तत्रापीवशब्देन पूर्वोक्त एव पक्षः सूच्यते ( भ्राजयति अबिभ्रजत् अबभ्राजत्) भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्इति चङ्परेणौ उपधाह्रस्वविकल्पः एवं चास्य ऋदित्त्वमनुदात्तेत्त्वमात्रफलम् भ्राजिष्णुः "भुवश्च'' इति चकारादिष्णुच् बिभ्राक् "भ्राजभासणधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्'' "चोः कुः'' इति कुत्वम् ब्रश्चादिसूत्रे राजिसाहचर्यात् फणादिकस्यैव ग्रहणमित्युक्तत्वान्न षत्वम् यत्तु वृत्तौ क्विप् सूत्रे बिभ्राडिति कृतषत्वस्यैवोदाहरणं तद्यनुबन्धकत्वेपीह फणादिकमपि गृह्मत इति सूचयितुं न त्वस्यापि षत्वमस्तीति अत्र रेजिरपि क्वचित्पठ्यते, तदनार्षमिव यदाह भट्टभास्करः "रेजते अग्नेपृथिवीमखेभ्य' इत्यत्र राजतेश्छान्दसत्वमिति 179