दृशिर्
 
प्रेक्षणे
 - पाघ्राध्मा (7378) इति पश्यादेशः पश्यति समो गम्यृछि (1329) इत्यत्र दृशेश्च )(1329 काशिका) इति तङ्-संपश्यते विभाषा सृजिदृशोः (7265) थलीट्-ददर्शिथ, दद्रष्ठ सृजिदृशोर्झल्यमकिति (6158) इत्यमागमः-द्रष्टा स्यसिच्सीयुट्तासिषु (6462) इति चिण्वदिट् च-दर्शिष्यते त्वया इरितो वा (3157) इत्यङ्, ऋदृशोऽङि गुणः (7416) अदर्शत, अद्राक्षीत्, न दृशः (3147) इति क्सो नास्ति ज्ञाश्रुस्मृदृशां सनः (1357) तङ्-दिदृक्षते चङि उरृत् (7447) वा-अददर्शत्, अदीदृशत्, अभिवादिदृशोरात्मनेपदे (1453 वा0) वा कर्तुः कर्मसंज्ञा-राजा दर्शयते भृत्यान्, भृत्यैर्वा पाघ्राध्माधेड्दृशः शः (तु0 31137) उत्पश्यः असूर्यललाटयोर्दृशितपोः (3236) खश्-असूर्यम्पश्या राजदाराः उग्रम्पश्येरम्मदपाणिन्धमाश्च (3237) त्यदादिषु दृशोऽनालोचने कञ्च (3260) तादृक्, तादृशः तादृक्षः (द्र0 3260काशिक) समानान्ययोश्च (3260 वा0) सदृशः, अन्यादृशः दृशे क्वनिप् (3294) पारदृश्वा दर्शः, आदर्शः अर्जिदृशिकम्यमि (उ0 127) इति पशुः भाषायां शासियुधिदृषिधृविमृषिभ्यो युच् (33130 वा0) सुदर्शनः कर्मणि दृशिविदोः साकल्ये (3429) णमुल्- कन्यादर्शं वरयति 959