इतस्त्रैङ् पर्यन्ता (1689) अष्टषष्टिरनिटः, परस्मैपदिनश्च
हृञ्
हरणे
- इतस्त्रैङ् पर्यन्ता (1689) अष्टषष्टिरनिटः, परस्मैपदिनश्च ञिन्ङिद्वर्जम् हरते, हरति हरतेर्गतिताच्छील्ये (1311 वा0) तङ्-पैतृकमश्वा अनुहरन्ते व्यवहृपणोः समर्थयोः (2357) षष्ठी-शतस्य व्यवहरति हर्ता ऋद्धनोः स्ये (7260) इतीट्-हरिष्यति हृक्रोरन्यतरस्याम् (1453) णौ कर्मसंज्ञा-हारयति भारं चैत्रेण, चैत्रं वा श्याद्व्यधा (3114) इति णः- अवहारो ग्राहः हरतेरनुद्यमनेऽच् (329) रिक्तहरः वयसि च (3210) कवचहरः आङि ताच्छील्ये (3211) पुष्पाहरः हरतेदृतिनाथयोः पशौ (3225) इतीन्-दृतिहरिः, नाथहरिः अध्यायन्यायोद्यावसंहार (33 122) इति करणे घञ् अध्याहारः हृसृरुहियुषिभ्य इतिः (उ0 197) हरिद् वर्णो दिक् च श्यास्त्यहृञ् (उ0 246) इतीनच्-हरिणः हृश्याभ्यामितन् (उ0 393) हरितःवृह्रोः सुग्दुकौ च ( तु0 उ0 4100) इति कयन्-हृदयम् पद्दनादौ (द्र0 6163) हृत् प्रकृत्यन्तरमप्यस्ति हृपिषि (तु0 उ0 4119) इतीन् हरिः जनिहृभ्यामिमनिन् (दश0 उ0 678) हरिमाणं च नाशय (ऋ0 15011) हृधृभृसृ (तु0 दश0 उ0 6173) इति ईमनिन्-हरीमा वेञो डित्, प्रे हरतेः कूपे (दश0 उ0 162,63) प्रहिः कृहृभ्यामेनुः (तु0 उ0 21) हरेणुर्गन्धद्रव्यम्, सस्यभेदश्च 868