शल
 
हुल
 
पतॢँ
 
गतौ
 - शलति शाला शलः शललं श्वाविल्लोम श्ल्यकः शल्यम् शल्मलिः शलभः शल्कः शलाका शालूकम् उत्पलादिकन्दः शल चलनसंवरणयोः (1328) इत्यस्यैव ज्वलादिकार्यार्थः पाठः होलति पतति लृदित्वात् लुङि अङ्, पतः पुम् (7419) अपप्तत् उत्पातः निपातः पातो राहुः पतः नेर्गदनद (8417) इति णत्वम्-प्रणिपतति सनीवन्तर्धभ्रस्ज (7249) इति वेट् सनि मीमाघु (7454) इतीस्-अभ्यासलोपौ (द्र0 7458) पित्सति, पिपतिषति पतितः यस्य विभाषा (7815) इतीण्निषेधो नास्ति द्वितीयाश्रितातीतपतित (2124) इति लिङ्गात् अलङ्कृञ् (32136) इतीष्णुच्-उत्पतिष्णुः जुचङ्क्रम्य (32150) इति युच्-पतनः लषपतपद (32154) इत्युकञ् प्रपातुकः विशिपतिपदिस्कन्दाम् (3456) इति णमुल् गेहानुप्रपातमास्ते दाम्नी (32182) इति ष्ट्रन्- पत्रम् पतिचण्डिभ्यामालञ् (उ0 1116) पातालम् पतेरङ्गच् पक्षिणि (उ0 1119) पतङ्गः पतेरश्च लः (उ0 374) पत्सलः अमिनक्षि (उ0 3105) इत्यत्रन्-पतत्रम् वीपतिभ्यां ततन् (उ0 3150) पत्तनम् पतस्थ च (उ0 412) इतीनिः- पन्थाः शलिपतिपदिभ्यो नित् (तु0 उ0 श्वेत0 415) पताका स्पृहिगृहि (32158) इति सूत्रात् पतायालुः 813-815